(१. प्रमाणसंख्याविप्रतिपत्तिनिरासः)

विप्रतिपत्तयश्चात्र संख्यालक्षणगोचरफलविषयाः सन्ति । तत्र संख्या
विप्रतिपत्तिनिराकरणार्थमाह (।)

मानं द्विविधं विषयद्वैविध्यात्;

मानं द्विविधं । यत्तत्प्रमाणमविसम्वादित्वादज्ञातार्थप्रकाशकत्वात्सामान्य-

लक्षणमुक्तं तद् द्विविधं । प्रत्यक्षानुमानभेदेन । कस्माद् (।) विषयस्य स्वलक्षणसा
मान्यलक्षणरूपतया द्वैविध्यात् । शाब्दादिकमपि हि प्रमाणम्भवत्सविषयं वक्तव्यं (।)
विषयश्च स्वसामान्यलक्षणादतिरिक्तो नास्ति । ततस्तद्विषयत्वे प्रत्यक्षानुमान
तैव । नापि सामान्यविशेषात्मक एकोस्ति विषयः539 । परस्परविरुद्धयोरैकात्म्या
योगात् ।

ननु कथं विषयद्वैविध्यसिद्धिः (।) न प्रत्यक्षान्नाप्यनुमानतो यथाक्रमं स्वलक्षण
सामा
न्यलक्षणत्वादनयोः । द्वाभ्यां द्वयसिद्धिरिति चेत् ।

ननु प्रत्यक्षस्य सामान्याविषयत्वे साध्यसाधनसम्बन्धाग्रहणादनुमानमेव न
स्यात् । सामान्यविषयत्वे च प्रत्यक्षत्वादेव तत्सिद्धेर्व्विफलमनुमानस्य प्रामाण्य
कल्पनं ।

अत्रोच्यते । प्रत्यक्षमपि स्वलक्षणं विषयीकुर्व्वत् तत्सम्भवि विजातीय
व्यावृत्त्युपकल्पितं सामान्यं पृष्ठविकल्पेन निश्चिन्वत्तद्विषयमपि निश्चयविषयेण
111 च प्रत्यक्षविषयव्यवस्था । एवन्तर्हि स्वलक्षणविषयता
न स्यादिति चेत्540 । न(।)
सजातीयव्यावृत्तत्वेनापि ततो निश्चयात्। द्वे च व्यावृत्ती स्वलक्षणे स्तो निश्चिते च
प्रत्यक्षबलात्। न चैवमप्यनुमानस्य वैयर्थ्य (।) न हि सामान्यमित्येव प्रत्यक्षविषयः ।
परोक्षे तस्याप्रवृत्तेः । न च यदेकदाऽपरोक्षं तत्सर्वदा तथा । स्वलक्षणं कदाचिद
परोक्षमप्यन्यदा परोक्षं एवं सामान्यमपि । ततोऽपरोक्षे सामान्ये गृहीतायां व्याप्तौ
परोक्षे तस्मिन्ननुमानवृत्तिरिति न कश्चिद्विरोधः । तस्मात्
प्रत्यक्षत्वाद्वा विषय
द्वैविध्यसिद्धिः प्रत्यक्षानुमानाभ्यां वेत्युभयथाप्युपपन्नं ।

विषयद्वैविध्यमेव कस्मादित्याह (।)

शक्त्यशक्तितः ।
अर्थक्रियायां;

शक्त्यशक्तितोऽर्थक्रियायां । स्वलक्षणस्यार्थक्रियाशक्तत्वात् । विजातीयव्या
वृत्त्युपकल्पितस्य च सामान्यस्याशक्तत्वात् विषयद्वैविध्यं । न ह्येकस्य विरुद्धाविमौ धर्मौ युज्येते । यद्यनर्थक्रियाकारि सामान्यं केशोण्डुकज्ञानप्रतिभासि केशाद्यपि सामान्यं स्यात् ।

केशादिर्न्नार्थोनर्थाधिमोक्षतः ॥ १ ॥

के541शादिरर्थः सामान्यरूपोऽनर्थाधिमोक्षतः । (१) यत्र हि व्यवह
र्तॄ542णा-21a
मर्थाध्यवसायः सोऽर्थः स्वलक्षणं सामान्यम्वा स्यात् । यत्र पुनरर्थबुद्धिरेव नास्ति
स कथं सामान्यमुच्यतां ।

112
सदृशासदृशत्वाच्च विषयाविषयत्वतः ।
शब्दस्यान्यनिमित्तानां भावे धीः सदसत्वतः ॥ २ ॥

तथा543 तदृशासदृशत्वाच्च विषयद्वैविध्यं । सदृशं सामान्यं सर्वव्यक्तिसाधारण
त्वात् । असदृशं स्वलक्षणं सर्व्वतो व्यावृत्तत्वात् । अनयोश्चान्योन्यव्यवच्छेदरूप
त्वात् न राश्यन्तरं । ततो यदि कल्प्यमानं सदृशं तदा सामान्यमेव तत् ।
अथासदृशं स्वलक्षणमेवेति द्वैविध्यमेव विषयस्य । तथा544 शब्दस्य विषयाविषय
त्वतश्च द्वैविध्यं । शब्दस्य विषयः सामान्यं । अविषयः स्वलक्षणं । न च
शब्दविषयाविषयाभ्यामन्योस्ति सर्व्वस्य संग्रहात् द्वैविध्यमेव । तथा विषयाद
न्यषान्निमित्तानां मनस्कारवत् साद्गुण्यसंकेतग्रहणानां भावे ग्राहिकाया धियः
सा545मान्ये सत्त्वात् स्वल546क्षणे चाभावात् विषयद्वैविध्यं । यत्र विषयव्यतिरिक्त
निमित्तसद्भावे भवति बुद्धिस्तत्सामान्यं (।) यत्र547तु न भवति तत् स्वलक्षणं ।
प्रकारान्तरञ्च न सम्भवतीति बुद्धिविषयाविषयत्वे सामान्यस्वलक्षणतैवेति द्वैविध्य
मेव विषयस्य । (२)

  1. नीलोत्पलादि परस्य अर्थसामर्थ्ये स्वलक्षणत्वमेव ।

  2. ननु यदतीन्द्रियं केशादिव्यवहितं स्वलक्षणं, यच्च सामान्यं न गोचरोनुमानस्य, तस्य कथं व्यवस्था ।

    यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनं ।
    भवेदिदानीं लोकस्य तथा कालान्तरेष्वपी
    ति
    [कुमारिल]वचनात् ।

  3. अनर्थक्रियातो न स्वलक्षणं, स्पष्टप्रतिभास्यनन्वयित्वाभ्यां न च सामान्यमिति विषयान्तरत्वमस्य ॥

  4. अथारोप्यैतत् अन्यथोत्पत्तिसारूप्याभ्यां विषयत्वे आकारो बहिर्भासिकेशादेर्नोत्पादको न सरूपको नापि सम्वित्तस्येति चोद्यानवकाश एव सांव्यवहारि
    प्रमाणमेतत् । देशादिविप्रकृष्टन्तु (।)

    यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनं ।
    भवेदिदानीं लोकस्य तथा कालान्तरेष्वपि
    [कुमारिलस्य] ॥

  5. सांख्यमतेनाह ।

  6. ज्ञानद्वारेण निराकृत्य शब्दमुखेनाह ।

  7. व्यवहर्तृ व्यवसायान्न वस्तुतः ।

  8. मनस्कारादीनां भावेपि यदभावे धियोऽभावस्तत्स्वलक्षणं ।

  9. विषये सत्येव बुद्धिर्भवति ।