सामान्ये कालान्तरानुवर्त्तिनि संकेतः स एव स्मर्यत इति चेदाह (।) न (।)

सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते ॥
तस्माच्चक्षुश्च रूपञ्च प्रतीत्योदेति नेत्रधीः ॥ १९० ॥

सामान्यमात्रस्य ग्रहणेऽभ्युपगम्यमाने भेदस्य विशेषस्य संकेतविषयस्यापेक्षा न युज्यते
यथा गौरित्युक्ते कीदृशो गौरिति । तस्मात्सामान्यवति विशेषे संकेत
स्तेनैवार्थित्वाद् व्यवहारिणां । तथा च भेदश्चासमितो ग्राह्य इत्युक्तं । तस्मा
च्चक्षुश्च रूपञ्च806 प्रतीत्यासाद्योदेति नेत्रधी
रित्यभ्युपगन्तव्यं ॥ (१९०)

  1. अथ कस्माद् द्वयाधीनायामुत्पत्तौ प्रत्यक्षमुच्यते न प्रतिविषयमिति[प्रमाण] समुच्चयं व्याख्यातुमुपक्रमते ॥