(६. प्रत्यक्षभेदाः)

(१) इन्द्रियप्रत्यक्षम्

176
अथ कस्माद् द्वयाधीनजन्म तत्तेन नोच्यते ॥ १९१ ॥

अथ द्वयाधीनजन्मविषयेन्द्रियोत्पत्तितदिन्द्रियज्ञानमिन्द्रियेणोच्यते व्यपदिश्यते
प्रत्यक्षमिति प्रतिगतमक्षम्प्रत्यक्षमिन्द्रियाश्रितमित्यर्थः ः (।) कस्मात्पुनर्व्विषयेण
नोच्यते प्रतिविषयमिति ॥ (१९१)