अपरे अप्येवं श्लेषानुगता विकल्पा द्रष्टव्या इति निगमयन्नाह—
इति कथितेन पथा श्लेषेणोक्त[रू]पेणानुविद्धानां युक्तानां व्याजस्तुतेः प्रकाराणां विकल्पानामन्येषां च शेषाणामपि प्रविस्तरः प्रपञ्चोऽपर्यन्तः अपरिमितः प्रयोगेषु लक्ष्यतां द्रष्टव्यः । इह तु दिङ्मात्रं दर्शितम् । विकल्पाः केचिदपरे निदर्श्यन्ते—