तद् विवृणोति—

पद्मसंमीलनादत्र सूचितो निशि सङ्गमः ।
आश्वासयितुमिच्छन्त्या प्रियमङ्गजपीडितम् ॥ २६० ॥

अत्र प्रयोगे निशि रात्रौ संगमः सुरतरूपः संकल्पात्मना सूक्ष्मो व्यवस्थितः, पद्मस्य संमीलनात् । मुकुलीकरणात् इङ्गितविशेषान्निमित्तात् । सूचितः प्रकाशितः । कान्तस्य किमेवं स्यादित्याह- आश्वासयितुमित्यादि । प्रियं वल्लभमङ्गजेन कामेन पीड़ितमाकुलीकृतम् इङ्गितग्रहणे निपुणं भावसमर्पणेनाश्वासयितुमाशापत्रिकादानेन व्यवस्थापयितुमिच्छन्त्या बालया 75a सूचित इति प्रकृतम् । अयमिङ्गित- सूक्ष्मो दर्शितः, पद्मसम्मीलनात् उत्पलकृतस्य कायकर्मण इङ्गितरूपत्वादिति ॥