11

॥ सामान्यदूषणम् ॥


82a
व्यापकं नित्यमेकं च सामान्यं यैः प्रकल्पितम् ।

मोहग्रन्थिच्छिदे तेषां तदभावः प्रसाध्यते ॥

कथमिदमवगम्यते परस्परविलक्षणक्षणेषु1 प्रत्यक्षसमीक्ष्यमाणेष्वभिन्न
धीध्वनिप्रसवनिबन्धनमनुयायिरूपं सामान्यं न मान्यं मनीषिणामिति ?
साधकप्रमाणविरहाद् बाधकप्रमाणसंभवाच्चेति ब्रूमः ।


तथा हि यदिदं सामान्यसाधनमनुमानमभिधीयते परैः,

यदनुगताकारं ज्न्ँआनं तदनुगतवस्तुनिबन्धनम् ।

यथा बहुषु पुष्पेषु स्रक् स्रगिति ज्न्ँआनम् ।

82b अस्ति च परस्परसंपर्कविकलकलासु कार्यादिव्यक्तिष्वनुगता
कारं विज्न्ँआनं तदनैकान्तिकतादोषाक्रान्तशरीरत्वान्न तद्भावसाधनायालम् ।
यतो भवति बहुषु पाचकेषु पाचकः पाचक इति एकाकारपरामर्शप्रत्ययः ।
न च तेष्वनुगतमेकं वस्तु समस्ति । तद्भावे हि प्रागेव तथाविधप्रत्ययोत्पाद
प्रसङ्गो दुर्वारप्रचारः ।


क्रियोपकारापेक्षाणां स्वलक्षणानां सामान्यव्यन्ँजकत्वादयमदोष इति
चेत् ? नैतदस्ति । नित्यानामनाधेयातिशयतयानुपकारिणि सहकारिण्यपेक्षा
योगात् । सातिशयत्वे वा प्रतिक्षणं विशरारुशरीरत्वात् क्रिया कुत इति
दोषो दुष्परिहरः । क्रियानिबन्धनत्वात् पाचकेष्वनुगताकारप्रत्ययस्य नानै
कान्तिकतादोष इत्यपि वार्तम् । प्रतिभेदं भिद्यमानानां कर्मणां तन्निबन्धनत्वा
योगात् । भिन्नानामप्यभिन्नाकारज्न्ँआननिबन्धनत्वे व्यक्तीनामपि तथाभावो
न राजदण्डनिवारितः । ततश्च सामान्यमेव नोपेयं स्यादिति मूलहरं
पक्षमाश्रयता देवानांप्रियेण सुष्ठु अनुकूलमाचरितम् । अनेनैव न्यायेन क्रिया
कारकसंबन्धमभिन्नज्न्ँआननिबन्धनमुपकल्पयन् प्रतिक्षिप्तः ।



12

पाकक्रियात्वनिबन्धनः पाचकेष्वनुगताकारः प्रत्ययः । तता नानै
कान्तिकतादोष इत्यपि न मन्तव्यम् । न ह्यर्थान्तरसंबन्धिनी जातिरर्था
न्तरप्रत्ययोत्पत्तिहेतुः, अतिप्रसङ्गात् ।


स्यादेतत् । समवेतसमवायसंबन्धबलात् पाकक्रियासामान्यं पाचकेष्व
भिन्नाकारं परामर्शप्रत्ययमुपजनयति । ततो न यथोक्तो दोषः ।


तदिदमप्यसारम् । यत उदयानन्तरापवर्गितया2 कर्मणामेवासंभवात्,
विनष्टे कर्मणि तत्सामान्यं न कर्मणि तदभावादेव, नापि कर्तरीति संबद्ध
संबन्धोऽप्यस्य नास्तीति नाभिन्नप्रत्ययहेतुः । तस्मात् स्थितमेतत्
तदनैकान्तिकतादोषदुष्टत्वात् नेदमनुमानं सामान्यसत्तासाधनाय पर्याप्त
मिति ।


इतश्चापि न सामान्यसत्तासाधनमिदमनुमानम् । यथैव हि परस्परा
सङ्कीर्णस्वभावा अपि शाबलेयादयो भावाः कयाचिदेव तदेककार्यप्रति
नियमलक्षणया स्वहेतुबलायातया प्रकृत्या तदेकमभिमतमनुगतरूपमुप
कुर्वते, तदपरसामान्यान्तरमन्तरेणान्यथानवस्थाप्रसङ्गात्, तथा 3तवैकं
परामर्शप्रत्ययमुपजनयन्तु किमन्तरालगडुना व्यतिरेकवता सामान्येनो
पगतेन ?


अथोच्यते । प्रतिनियतशक्तयः सर्व83a भावाः । एतच्च सामान्याप
लापिभिरपि नियतमभ्युपगमनीयम् । अन्यथा कुतः शालिबीजं शाल्यङ्कुर
मेव जनयति न कोद्रवाङ्कुरमिति परपर्यनुयोगे भावप्रकृतिं मुक्त्वा किमपर
मिह वचनीयमस्ति ?


एतच्चोत्तरमस्माकमपि न वनौकःकुलकवलितम् । तथा हि वय
मप्येवं शक्ता एव वक्तुम् । सामान्यमेवोपकर्तुं शक्तिर्व्यक्तीनां भेदाविशेषेऽपि
न तदेकं विज्न्ँआनमुपजनयितुमिति ।


अनुत्तरं बत दोषसङ्कटमत्रभवान् दृष्टिदोषेण 4प्रवेश्यमानोऽपि नात्मान
मात्मना संवेदयते । तथा हि शालिबीजतदङ्कुरयोरध्यक्षानुपलम्भनिबन्धने
कार्यकारणभावेऽवगते शालिबीजं शाल्यङ्कुरं जनयितुं शक्तं न कोद्रवाङ्कुर
मिति शक्यमभिधातुम् । नैवं सामान्यतद्वतोरुपकार्योपकारकभावः कुतश्चन
13 प्रमाणात् निश्चितः । तत् कथमिदमुत्तरमभिधीयमानमादधीत साधिमान
मित्यलमलीकनिर्बन्धनेन ? न साधकप्रमाणविरहमात्रेण प्रेक्षावताम्
असद्व्यवहारः । ततस्तदभावसाधकमनुमानमभिधीयमानमस्माभिराकल्प्य
ताम्5


यद् यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते, तत्तदसदिति प्रेक्षावद्भिः
व्यवहर्तव्यम् ।


यथाम्बराम्बुरुहम् ।


नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं क्वचिदपीति स्वभावानु
पलब्धिः ।


न चात्रासिद्धिदोषोद्भावनया प्रत्यवस्थातव्यम् । तथा हि अत्रासिद्धिः
भवन्ती स्वरूपतो विशेषणतो वा भवेत् ? तत्र न तावदाद्या6 संभवति,
अन्योपलम्भरूपस्यानुपलम्भस्याभ्युपगमात् । तस्य च स्वसंवेदनप्रत्यक्ष
साक्षात्कृतस्वरूपत्वात् कुतः स्वरूपासिद्धिदोषावकाशः ?


अथोच्यते स्वसंवेदनमेव न संभवति, स्वात्मनि क्रियाविरोधात् । न हि
तयैवासिधारया सैवासिधारा च्छिद्यते; तदेवाङ्गुल्यग्रं तेनैवाङ्गुल्यग्रेण स्पृश्यत
इति । अतोऽसिद्ध एवायं हेतुः । 7तदिदं स्वसंवेदनशब्दार्थापरिज्न्ँआन
विजृम्भितमेव प्रकटयति वाचः ।


तथा हि कलसकलधौतकुवलयादिभ्यो व्यावृत्तं विज्न्ँआनमुपजायते । तेन
बोधरूपतयोत्पत्तिरेवास्य स्वसंवित्तिरुच्यते, प्रकाशवत् । न कर्मकर्तृक्रिया
भावात् । एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः । यथैव हि प्रकाशकान्तर
निरपेक्षः प्रकाशः प्रकाशमान आत्मनः प्रकाशक उच्यते, तथा ज्न्ँआनमपि
ज्न्ँआनान्तरनिरपेक्षं प्रकाशमानमात्मनः प्रकाशकमुच्यते ।


ततोऽयं पर83b मार्थः । न ज्न्ँआनं ज्न्ँआनान्तरसंवेद्यमुपपद्यते, नाप्य
संविदितमुच्यते । यथा प्रकारे च स्वसंवेदनशब्दार्थे विवक्षिते न किन्ँचिद्
8वचनीयमस्ति कुतो यथोक्तदोषावसरः ?


14

नापि विशेषणासिद्ध्यासिद्धिरुद्भावनीया । उपलब्धिलक्षणप्राप्ततया
सामान्यस्य स्वयमेव परैरुपगमात् । तथानभ्युपगमे वा न सामान्यबलेन
9बाहुलेयादिष्वनुगताकारौ धीध्वनी स्याताम् । न हि यतो यत्र ज्न्ँआनाभिधान
प्रवृत्तिः, 10तदनुपलक्षणे तस्य प्रतीतिर्भवति, दण्डिवत् ।


यत् पुनरिदमुद्द्योतितम् उदद्योतकरेण, किं सामान्यं प्रतिपद्यसे न वा ?
यदि प्रतिपद्यसे, कथमपह्नुषे ? अथ न प्रतिपद्यसे, तदा तस्यासिद्धत्वादा
श्रयासिद्धो हेतुः ।


तदिदं तस्य 11धर्मिस्वरूपतानभिज्न्ँअताविजृम्भितमाभाति, यतो न वयं
बहीरूपतया सामान्यं धर्मितयाङ्गीकुर्महे, अन्तर्मात्रानिवेशिनो भावाभावो
भयानुभयाहितवासनापरिपाकप्रभवस्याध्यस्तबहिर्वस्तुनो ज्न्ँआनाकारस्य धर्मि
तयोपयोगात्12 । स च स्वसंवेदनप्रत्यक्षसिद्धतया न शक्यः प्रतिक्षेप्तुम् ।


तदत्र धर्मिणि व्यवस्थिताः सदसत्त्वे चिन्तयन्ति । किमयं सामान्यशब्द
विकल्पप्रतिभासार्थो धर्मी परपरिकल्पितबहिःसामान्यनिबन्धनो वेति ? तस्य
बाह्यानुपादानत्वे 13साध्यतयानुपलम्भो हेतुः । न पुनस्तस्यैवाभावः प्रसाध्यते,
तद्विषयशब्दाप्रयोगप्रसङ्गात् । एवंविधे च धर्मिणि विवक्षिते कुत आश्रया
सिद्धिदोषः ?


यत् तूच्यते, प्रत्यक्षप्रमाणसिद्धस्वभावतया सामान्यस्यासिद्ध एवायं
हेतुरिति तदयुक्तम्, तस्य स्वरूपेणाप्रतिभासनात् ।


इदमेव हि प्रत्यक्षस्य प्रत्यक्षत्वम्, यत् स्वरूपस्य स्वबुद्धौ समर्पणम् ।
इदं पुनर्मूल्यादानक्रयि सामान्यं स्वरूपं च नादर्शयति, प्रत्यक्षतां च स्वी
कर्तुमिच्छति । तथा हि न वयं परस्परासङ्कीर्णशाबलेयादिव्यक्तिभेदप्रति
भासनवेलायां तद्विलक्षणमपरमनुगतमध्यक्षेणेक्षामहे, 14कण्ठेगुणमिव भूतेषु,
शाबलेयसामान्यबुद्धेरसिद्धेः । तत् कथमदृष्टकल्पनयात्मानमात्मना विप्रल
भेमहि ? इति नासिद्धो हेतुः ।


नाप्यनैकान्तिकता शङ्काविषयमतिपतति, विपक्षवृत्त्यदर्शनात् । असपक्षे
संभवानुपलम्भात् साधारणानैकान्तिकता मा भूत्, सन्दिग्धविपक्षव्यावृत्ति
कता तु प्रतिबन्धादर्शनादनिवारितप्रसरैव ।


15

15तदेतदनालोचिततर्ककर्कशधियामभिधानम्, विपर्यये बाधकप्रमाण
सामर्थ्यादप84a सारितसद्भावत्वात् तदाशङ्कायाः । तथा हि असत्त्वे साध्ये
सत्त्वं विपक्षः । तत्र प्रत्यक्षवृत्त्या भवितव्यम्, यतो यद् यदाविकलाप्रतिहत
सामर्थ्यम्, तत् तदा भवत्येव । तद् यथा अविकलबलसकलकारणकलापो
ऽङ्कुरः । सति च चक्षुरादिसाकल्ये दृश्ये वस्तुन्यविकलाप्रतिबद्धशक्तिकारणं
प्रत्यक्षं ज्न्ँआनमिति स्वभावहेतुः । ततो विरुद्धोपलम्भाद् विपक्षाद् व्यावर्त
मानो हेतुरसद्व्यवहारयोग्यत्वेन व्याप्यत इति व्याप्तिसिद्धेर्नानैकान्तिकः ।


अभिमतसाध्यप्रतिबन्धसिद्धेस्तु विरुद्धता दूरतरसमुत्सारितरभस
प्रसरैव ।


ततोऽसिद्धतादिदूषणशङ्काकलङ्कानङ्किताद्धेतोः16 प्रस्तुतवस्तुसिद्धौ सिद्धम्
असत्त्वं सामान्यस्येत्यलमतिबहुविस्तरविसारिण्या कथयेति विरम्यते ।


न च वस्तुसंस्थानवत् सामान्यं17 व्यक्तेर्लक्षणम् । न चानुवृत्तव्यावृत्त
वर्णाद्यात्मके जातिव्यक्ती वर्णादिनियतप्रतिभासप्रतीतिप्रसङ्गात्, व्यक्तेरे
वासौ प्रतिभास इति चेत् ? कोऽपरस्तर्हि सामान्यस्यानुगताकार इति चेत् ?
ननु वर्णसंस्थाने विरहय्य किमपरमनुगामि विद्यते ? जातिव्यक्त्योः समवाय
बलादविभावितविभागयोः क्षीरोदकयोरिव परस्परमिश्रणेन प्रतिपत्तिरिति
चेत् ? न तर्हि सामान्यविशेषयोरेकतरस्यापि रूपं गृहीतम् । स्वरूपाग्रहणे
अनयोरप्यग्रहणमिति निरालम्बनैव सा तादृशी प्रतिपत्तिरिति परमार्थ आवे
दितस्तावत् । निरालम्बनया च प्रतीत्या व्यवस्थाप्यमानं सामान्यं सुव्यव
स्थापितम् ।


तस्माद् विशेष्यासिद्ध्यापि नायमसिद्धो हेतुः ।

सपक्षे वर्तमानो विरुद्ध इत्यपि न मन्तव्यः ।

अनैकान्तिकताप्यस्य न संभावनामर्हति ।

असद्व्यवहारानपेक्षत्वेन हि दृश्यानुपलम्भो व्याप्तः । यदि हि सन्नपि
तत्र न प्रवर्तयेत्, इह सापेक्षः स्यात् । ततो विपक्षाद् व्यापकविरुद्धावरुद्धाद्
16 व्यावर्तमानोऽसद्व्यवहारे विश्राम्यतीति । अतस्तेनासद्व्यवहारेणानुपलम्भो
18व्याप्त इति कुतोऽनेकान्तः ? ततश्च स एवार्थः समायातः ।

एतासु पन्ँचस्ववभासनीषु

प्रत्यक्षबोधे स्फुटमङ्गुलीषु ।

साधारणं षष्ठमिहेक्षते यः

शृङ्गं शिरस्यात्मन ईक्षते19 सः ॥

इति ।


सर्वस्य च पूर्वोक्तस्यायं परमार्थः ।

प्रत्यक्षप्रतिभासिवर्ष्मसु न पन्ँचस्वङ्गुलीषु स्थितं20

सामान्यं प्रतिभासते न च विकल्पाकारबुद्धौ तथा ।

ता एवास्फुटमूर्तयोऽत्र हि विभासन्ते 84b न जातिस्ततः

सादृश्यभ्रमकारणौ पुनरिमावेकोपलब्धिध्वनी ॥

इति सामान्यसिद्धिदूषणा दिक् प्रसाधिता21

॥ कृतिरियं पण्डिताशोकस्य ॥
  1. °क्षणलक्षणेषु R

  2. यत् °वर्जितया S

  3. तमेकं S

  4. प्रविश्य S

  5. °राकल्य° S

  6. °दाद्यं S

  7. तदेदं R

  8. वचनीयकमस्ति S

  9. वा कुलेया° S

  10. °लम्भने ?

  11. °पिता° S

  12. °नुभवाहित° S °पगमात् R

  13. साध्ये तथानु° ?

  14. कण्ठेशन° S

  15. तदेतन्न समा° S

  16. अतः...क ? लङ्कि कृता° S

  17. सामान्यं न ? R

  18. व्याप्यत इति S

  19. ईष्यते R

  20. °वर्त्म न पन्ँच…लीषु स्थितम् S, °भासि धर्मसु S. Intro. p. V, °ष्ववस्थितम् R.

  21. प्रसारिता S.