12

पाकक्रियात्वनिबन्धनः पाचकेष्वनुगताकारः प्रत्ययः । तता नानै
कान्तिकतादोष इत्यपि न मन्तव्यम् । न ह्यर्थान्तरसंबन्धिनी जातिरर्था
न्तरप्रत्ययोत्पत्तिहेतुः, अतिप्रसङ्गात् ।


स्यादेतत् । समवेतसमवायसंबन्धबलात् पाकक्रियासामान्यं पाचकेष्व
भिन्नाकारं परामर्शप्रत्ययमुपजनयति । ततो न यथोक्तो दोषः ।


तदिदमप्यसारम् । यत उदयानन्तरापवर्गितया2 कर्मणामेवासंभवात्,
विनष्टे कर्मणि तत्सामान्यं न कर्मणि तदभावादेव, नापि कर्तरीति संबद्ध
संबन्धोऽप्यस्य नास्तीति नाभिन्नप्रत्ययहेतुः । तस्मात् स्थितमेतत्
तदनैकान्तिकतादोषदुष्टत्वात् नेदमनुमानं सामान्यसत्तासाधनाय पर्याप्त
मिति ।


इतश्चापि न सामान्यसत्तासाधनमिदमनुमानम् । यथैव हि परस्परा
सङ्कीर्णस्वभावा अपि शाबलेयादयो भावाः कयाचिदेव तदेककार्यप्रति
नियमलक्षणया स्वहेतुबलायातया प्रकृत्या तदेकमभिमतमनुगतरूपमुप
कुर्वते, तदपरसामान्यान्तरमन्तरेणान्यथानवस्थाप्रसङ्गात्, तथा 3तवैकं
परामर्शप्रत्ययमुपजनयन्तु किमन्तरालगडुना व्यतिरेकवता सामान्येनो
पगतेन ?


अथोच्यते । प्रतिनियतशक्तयः सर्व83a भावाः । एतच्च सामान्याप
लापिभिरपि नियतमभ्युपगमनीयम् । अन्यथा कुतः शालिबीजं शाल्यङ्कुर
मेव जनयति न कोद्रवाङ्कुरमिति परपर्यनुयोगे भावप्रकृतिं मुक्त्वा किमपर
मिह वचनीयमस्ति ?


एतच्चोत्तरमस्माकमपि न वनौकःकुलकवलितम् । तथा हि वय
मप्येवं शक्ता एव वक्तुम् । सामान्यमेवोपकर्तुं शक्तिर्व्यक्तीनां भेदाविशेषेऽपि
न तदेकं विज्न्ँआनमुपजनयितुमिति ।


अनुत्तरं बत दोषसङ्कटमत्रभवान् दृष्टिदोषेण 4प्रवेश्यमानोऽपि नात्मान
मात्मना संवेदयते । तथा हि शालिबीजतदङ्कुरयोरध्यक्षानुपलम्भनिबन्धने
कार्यकारणभावेऽवगते शालिबीजं शाल्यङ्कुरं जनयितुं शक्तं न कोद्रवाङ्कुर
मिति शक्यमभिधातुम् । नैवं सामान्यतद्वतोरुपकार्योपकारकभावः कुतश्चन

  1. यत् °वर्जितया S

  2. तमेकं S

  3. प्रविश्य S