मीलिते ज्ञानमस्तीति साजात्यादनन्तरं स्मृतिं लक्षयति—सदृशेति । सदृशा ज्ञायमानसादृश्यात् प्रयत्नजा स्मृतिश्चिन्तादिर्यस्यार्थमग्रे कथयिष्यति—अनुभूतार्थवेदनं समानविषयानुभवनियतज्ञानविशेषरूपं स्मरणम् । प्रत्यभिज्ञानमपि पूर्वानुभूतविषयमेव । एवं स्वप्नोऽपि ॥
तत्र सदृशाद्यथा—
अत्र स्वञ्जनपङ्क्तिदर्शनात्तत्सदृशप्रियानयनविभ्रमस्मरणात्तत्सदृशदर्शनजं स्मरणमिदम् ॥
अत्र खञ्जनेति । अत्रशब्देनखञ्जनपङ्क्तिश्चेदवलोकितानन्तरमेव प्रियास्मरणमासीदिति कार्यकारणभावोऽवगम्यते । स च कारणतासादृश्यमनन्तर्भाव्य खञ्जनज्ञानस्यास्तीति च प्रतीतं सादृश्यमिति भावः ॥
अदृष्टाद्यथा—
अत्र मुनिसुताप्रणयस्मृतिरोधिना तमसा मे मनो वियुक्तमित्यदृष्टकृतं स्मरणमिदम् ॥
अत्र मुनिसुतेति । तमोलक्षणस्य प्रतिबन्धकस्यापगमे स्मरणरूपं कार्यमावश्यकमित्यर्थः ॥
चिन्ताया यथा—