क्रमप्राप्तार्थालंकारलक्षणाय तृतीयपरिच्छेदारम्भः । तत्र विभागोपयुक्तं सामान्यलक्षणमाह—
अलमर्थमिति । विशिष्टा उत्पत्तिर्व्युत्पत्तिर्जातेरवच्छेदकः प्रकारः । आदिशब्दाद्विविधशक्तिप्रतिबन्धादयो विभावनाद्यवच्छेदास्त्रयोविंशतिः । अर्थालंकारसंज्ञयेति । अर्थशोभानिवृत्तिहेतुर्विच्छित्तिरर्थालंकार इति स्फुटलक्षणम् ॥
विभागान्दर्शयति—जातिरिति ॥
प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावाख्यानि जैमिनेः प्रमाणानि षट् । तेनैव क्रमेण लक्षणान्याख्यातुं प्रत्यक्षपूर्वाणीत्युक्तम् । साहित्यस्य सर्वपरिषद्यत्वन्नानादर्शनरीत्युपजीवनमुचितमेव ॥