319

स्वाभाविकत्वविभावनायां शुद्धा यथा—

‘अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता ।
अरञ्जितारुणश्चायमधरस्तव सुन्दरि ॥ १४ ॥’

अत्रैकैकं दृष्ट्यादिकमुद्दिश्यासितत्वादेरनञ्जितत्वादिरेकैको हेतुर्व्या वर्त्यते । स्वाभाविकत्वं चासितत्वादि दृष्ट्यादेर्विभाव्यते । सेयं शुद्धा नाम स्वाभाविकविभावनायां विभावना ॥

कारणान्तरविभावनायां चित्रा यथा—

‘असंभृतं मण्डनमङ्ग्यष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे १५’

अत्रैकमेव वयोलक्षणं पदार्थमुद्दिश्याप्यनेको मण्डनादेः प्रसिद्धो हेतुः संभृतत्वादिर्व्यावर्त्यते । कारणान्तरं च स्तनोद्भेदधातूपचयलावण्यलक्ष्मीलाभादिर्विभाव्यते । सेयं चित्रा नाम कारणान्तरविभावना ॥

असंभृतमिति । ननु मण्डनस्य संभरणपूर्वकतया प्रसिद्धेरस्तु विभावना । ‘अनासवाख्यं करणं मदस्य कामस्य पुष्पव्यतिरिक्तमस्त्रम्’ इत्यत्र तु कथम् । तथाहि । करणमिति करणे वा ल्युट्र । आद्ये मदस्य करणमासवो वयस्तु ततो भिन्नमिति कदाचिव्द्यतिरेकः स्यान्नतु विभावना । द्वितीयेऽपि वयो मदस्य क्रिया आसवनाम्नी न भवतीति न संगतम् । एवं पुष्पव्यतिरिक्तमस्त्रमित्यत्रापि विकल्प्य यथायथं दूषणं वाच्यम् । तत्कथमेतत् । उच्यते । करणं क्रिया आसवमाख्यातीत्यासवाख्यम् । स्त्र्याख्यवत्प्रत्ययविधिः । न तथाभूतमनासवाख्यम् । हेतुतया न क्वचिदासवबोधक्षमम् । तथा हेतुप्रतिषेध एव भङ्ग्या दर्शितो भवति । अस्त्रमपि क्रियारूपं तत्पुष्पव्यतिरिक्तं पुष्पच्युतं विना पुष्पेभ्य इति पूर्ववदुन्नेयम् । स्तनोद्भेदेत्यादौ नार्थसंदेहः ॥

सैव स्वाभाविकत्वविभावनायां यथा—

‘णमह अवट्ठिअतुङ्गं अविसारिअ विस्यअअणोणअअं गहिरम् ।
अप्पलहुअपरिसण्हं अण्णाअपरमत्थपाअंड महुमहणम् ॥ १६ ॥’
[नमत अवस्थिततुङ्गमविसारिताविस्तृतमनवनतगभीरम् ।
अप्रलघुमपरिश्लक्ष्णमज्ञातपरमार्थपारदं मधुमथनम् ॥]