समाधिरिति । अन्यधर्मस्यान्यत्र विशेषे य आरोपः स समाधिः । निरुद्भेदोऽव्यक्तः, सोद्भेदः स्फुटः ॥
तयोर्निरुद्भेदो यथा—
अत्र दिनकरदिनलक्ष्मीप्रतीचीनां समारोपितनायकनायिकाप्रतिनायिकाधर्माणां दूरप्रतिबद्धराग इत्यादिभिः श्लिष्टपदैरनुद्भेदः । एवमन्यधर्माध्यारोपादयं निरुद्भेदः समाधिभेदः ॥
दूर इत्यादि । ‘दूरप्रतिबद्धरागेऽवगूहमान एव दिनकरेऽपरदिशम् । असहमानेव क्लाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः ॥’ इहात्यर्थधृतलौहित्येऽत्यर्थंकृतानुरागे च दिनकरे सूर्ये वल्लभे चापरदिशं प्रतीचीमपरनायिकां चावगूहमाने संबध्नात्याश्लिष्यति च सति दिनशोभा वल्लभस्फुटदूषणमसहमानेव क्लाम्यति म्लाना भवति । अत्र च नायकत्वाद्यारोपणं रागादिपदैः श्लिष्टैः क्रियत इति निरुद्भेदता ॥
सोद्धेदो यथा—
अत्रापि प्रियतमव्यलीकासहिष्णुः कापि कामिनी हिमानीप्लुष्टां