वैधर्म्यवती यथा—
अत्र सत्युपमाने सत्युपमेये सत्यपि चेवशब्दे महौजसां मलिम्लुचानां च योऽयं छलापकरणं नाम वस्तुधर्मः स उपमान एव नकारेण नियम्यत इति वैधर्म्यवतीनामेयं वाक्यार्थोपमासु वाक्योपमाभक्तिः ॥
प्रहित इत्यादि । अयं विविध उच्यतासदृशोपमविशेषगुणे(?) इहान्यरूपैः साम्येऽपि वाच्यधर्म उपमान एव निषेधेन नियमित इति वैधर्म्यम् । तद्वतीयमुपमा ।
प्रपञ्चोपमाया अष्टविधत्वमाह—
यत्रेति । वाक्यार्थे वचनभङ्ग्या यत्र वाक्यार्थयोर्विस्तरेण सादृश्यं ज्ञायते सा प्रपञ्चोपमा ॥
तस्या विभागमाह—
सेति । प्रकृतरूपं साहजिकं विकृतं रूपमौपाधिकम् ॥
तासु समस्तोपमा यथा—