शब्देभ्य इति । यासूभयालंक्रियासु इवादिभ्यः शब्देभ्यो विशिष्ट उपमादिरूपोऽर्थो ज्ञायते ता उभयालंक्रियाः स्युः । कीदृश्यः । कवीनां प्रियाः प्रीतिविषयाः, उपमादीनां कविसर्वस्वायमानत्वात् । शब्दश्चार्थश्चेत्युभयम् । सह तुल्ययोगितया वर्तते इति सतुल्ययोगिता । एवमितरेष्वपि । परिष्कृतिः परिकरः । भाविकैरिति सहार्थे तृतीया ॥
अथोपमालंकारनिरूपणम् ।
उपमालक्षणमाह—प्रसिद्धेरिति । अर्तयोरूपमानोपमेययोर्मिथो यो भूयसा प्रचुराणामवयवसामान्यानामेकदेशसाधर्म्याणां योगः संबन्धः, सा इह ग्रन्थे [शास्त्रे] उपमा मता । तर्हि मुखं कमलमिवेतिवत् कुमुदमिवेत्यपि स्यादत आह—प्रसिद्धेरिति । प्रसिद्धेर्लोकप्रसिद्धेरनुरोधेन पुरस्कारेण । तथा च कुमुदमुखयोरुपमा न लोकप्रसिद्धेति दोषः ॥
इहाभिधीयमानार्थप्रतीयमानार्थविषयतयोपमा द्विधा । सापि पदवाक्यप्रपञ्चभेदात्त्रिधा । तासां त्रिधाभूतानां प्रत्येकमष्टविधत्वेन चतुर्विशतिप्रकारोपमेत्याह—पदेत्यादि ॥
पदोपमाया अष्टविधत्वमाह—