426

अत्रावयविन एव केवलस्य वदनं पङ्कजमिवेति रूपणादस्य शब्दप्राधान्यं वेल्लितभ्रुप्रभृतिविशेषणोपादानाच्चार्थप्राधान्यमेव लक्ष्यते तेन केवलं नाम रूपकमिदं शुद्धरूपकेषूभयभूयिष्ठरूपकभेदः ॥

वेल्लितेति । तवेदं वदनपङ्कजं कर्तृ मदावस्थां मद्यपानजां दशां विवृणोति प्रकाशयति । कीदृशम् । वेल्लिते नर्तिते भ्रुवौ यत्र यत् । आलोहिते अतिरक्ते ईक्षणे यत्र तत् । इह मुखपद्मरूपस्यावयविनः केवलस्य रूपणात्केवलरूपकमिदम् ॥

व्यतिरेकवद्यथा—

‘अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- 141रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ ४४ ॥’

अत्र पुष्पकिसलयरत्नमधुपुण्यफलानामनाघ्रातमित्यादिविशेषणापादितव्यतिरेकाणां प्रतीयमानसादृश्येन शकुन्तलारूपेण रूपणादर्थतः शब्दतश्च प्राधान्यमवधार्यत इति व्यतिरेकवन्नाम रूपकमिदं शुद्धरूपकेषूभयभूयिष्ठरूपकभेदः ॥

अनाघ्रातमित्यादि । अनघमनवद्यं तस्या रूपमिह भुवि कं भोक्तारं समुपस्थितं करिष्यति तदहं न जाने । कीदृशम् । अनाघ्रातमगृहीतगन्धं पुष्पमेव । कररुहैर्नखैरलूनमखण्डितं किसलयम् । अनामुक्तमपरिहितम्, अनास्वादितरसमगृहीतास्वादं नूतनं मधु,पुण्यानां चाखण्डं सकलं फलमपि । ‘आमुक्तः परिहिते शुभ्रे’ इति विश्वः । इह पुष्पादीनामनाघ्रातादिना व्यतिरेकवतां रूपणाद्व्यतिरेकवद्रूपकमिदम् ॥

शब्दार्थभूयिष्ठरूपके संकीर्णरूपकं विभजते—

अथ संकीर्णभेदानां चतुष्टयमिहोच्यते ।
स्यात्सावयवसंकीर्णं तथानवयवाह्वयम् ॥ ३२ ॥
तथैवोभयसंकीर्णं श्लेषोपहितमित्यपि ।
सैषा रूपकभेदानां विंशतिश्चतुरुत्तरा ॥ ३३ ॥
  1. ‘अनामुक्तं’ इति टीकाकारसंमतः पाठः