611
तेषु दृष्टं यथा—
‘सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां 632मण्डनं नाकृतीनाम् ॥ १२२ ॥’
श्रुतं यथा—
‘किं रूपं स्फुटमेव सा शशिमुखी धत्ते तदत्यद्भुतं
मामुत्साहयितुं परापकरणे चित्तं किमस्मत्स्वसुः ।
इत्यन्तर्विकसद्वितर्कविधुरं चेतस्तथा वर्तते
स्वल्पोऽप्येष मम प्रयाति पुरतः पन्था यथा दीर्घताम् १२३’
अनुमानं यथा—
‘शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १२४ ॥’
‘कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो
रत्नं यत्क्वचिदस्ति635 तत्परिणमत्यस्मासु शक्रादपि ।
कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं
बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्च संबन्धिनः ॥ १२५ ॥’
विषयगुणेन पटुप्रत्ययादुत्पन्नः पटुर्यथा—
‘उत्पत्तिर्देवयजनाद्ब्रह्मवादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः636 स्नेहं करोति मे ॥ १२६ ॥’