626
723हीनपात्रादिषु चैतदाभासा भवन्ति । तत्र हीनपात्रेषु पुंसि प्रेमानुरागो यथा—
‘कअलीगब्भसरिच्छे ऊरू दट्ठूण हलिअसोण्हाए ।
उल्ललइ णहरंजणं चंदिलस्स724 सेउल्लिअकरस्स ॥ १८४ ॥’
[कदलीगर्भसदृक्षे ऊरू दृष्ट्वा हालिकस्नुषायाः ।
आर्द्रीभवति नखरञ्जनं नापितस्य स्वेदार्दितकरस्य ॥]
अत्रैव स्त्रियां मानो यथा—
[प्रथमगृहिण्या समकं पश्याभीरे भयं कुर्वति ।
नववध्वा सरोषं सर्वेऽपि च वत्सका मुक्ताः ॥]
तिर्यक्षु पक्षिणि प्रवासो यथा—
‘आपृच्छामि व्यथयति मनो दुर्बला वासरश्रीरे-
ह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि ।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा
दैवाधीनः सपदि भवतीमस्वतस्त्रस्त्यजामि ॥ १८६ ॥’
अत्रैव करिणि727 करुणो यथा—
‘नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं
नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः ।
दानज्यानिविषण्णमूकमधुपव्यासङ्गदीनाननो
नूनं प्राणसमावियोगविधुरः728 स्तम्बेरमस्ताम्यति ॥ १८७ ॥’
अथ संभोगः । तत्र नायकयोः प्रागसंगतयोः संगतवियुक्तयोर्वा