562
प्रपूर्वको वसिर्ज्ञेयः कारितान्तःप्रमापणे304
तूष्णीं प्रवासयेदेनमिति वृद्धानुशासनात् ॥ ७३ ॥
अभूतोत्पादनायां कृञ् दृष्टः कुरु घटं यथा ।
दृष्टश्चोच्चारणे चौरंकारमाक्रोशतीतिवत् ॥ ७४ ॥
दृष्टोऽवस्थापनेऽश्मानमितः कुरु यथोच्यते ।
अभ्यञ्जनेऽपि च यथा 305पादौ मे306 307सर्पिषा कुरु ॥ ७५ ॥
मूर्च्छाविलापौ कुरुते कुरुते साहसे मनः ।
करोति 308चित्तं दुःखेन योऽसौ करुण उच्यते ॥ ७६ ॥
भुजिः पालनकौटिल्याभ्यवहारानुभूतिषु ।
भुनक्ति भुग्नो भूङ्क्तेऽन्नं भूङ्क्ते सुखमितीष्यते ॥ ७७ ॥
समीचीनार्थसंपूर्वात्ततो घञ्प्रत्यये सति ।
भावे वा कारके वापि रूपं संभोग इष्यते ॥ ७८ ॥
309पालनार्थः पूर्वानुरागानन्तर उच्यते ।
उत्पन्ना हि रतिस्तास्मिन्नानुकूल्येन पाल्यते ॥ ७९ ॥
स मानानन्तरं प्राप्तः कौटिल्यार्थं विगाहते ।
स्वतोऽपि कुटिलं प्रेम किं नु310 मानान्वये सति ॥ ८० ॥
प्रवासानन्तरे तस्याभ्यवहारार्थतेष्यते ।
तत्र ह्युपोषितैरन्नमिव निर्विश्यते रतिः ॥ ८१ ॥
करुणानन्तरगतोऽनुभावार्थः311 स कथ्यते ।
312विस्त्रम्भवद्भिरस्मिन्हि 313सुखमेवानुभूयते ॥ ८२ ॥
  1. अन्तःप्रमापणमाभ्यन्तरो वधः
  2. मे पादौ सर्पिषाभ्यञ्जयेत्यर्थः
  3. ‘पादौ मे कुरु सर्पिषा’ क ख
  4. ‘कुरुते साहसं मनः’ क ख
  5. ‘करोति दुःखं चित्तेन’ क ख
  6. ‘स पावनार्थः’ क
  7. ‘किमु मानान्वये सति’ क
  8. ‘ऽनुभावार्थः स कथ्यते’ क ख
  9. ‘विश्रम्भवद्भिः’ क ख ग
  10. ‘मुखमेवानुभूयते’ घ