664
प्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः । स हि चैत्रचतुर्थीतोऽष्टमचतुर्थ्यामुपादीयमानः कामिनीभिरर्च्यते । यथा—
[अवशहृतजनः पत्या श्लाघ्यमानेनेयच्चिरं हसितः ।
चन्द्र इति तव मुखसंमुखदत्तकुसुमाञ्जलिविलक्षः ॥]
यस्यां यवस्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थी । यथा—
[लुलिता गृहपतिसुता दत्तमिव फलं यवैः सविशेषम् ।
इदानीमनिवारितमेव गोधनं चरतु क्षेत्रे ॥]
वसन्तावतारदिवसः सुवसन्तको यथा—
‘छणपिट्ठधूसरत्थणि महुमअतम्बच्छि कुवलआहरणे ।
1030कण्णकअचूअमंजरि पुत्ति तुए मंडिओ गामो ॥ ३०० ॥’
[क्षणपिष्टधूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे ।
कर्णकृतचूतमञ्जरि पुत्रि त्वया मण्डितो ग्रामः ॥]
यत्र स्त्रियो दोलामारोहन्ति सान्दोलनचतुर्थी । यथा—
[आन्दोलनक्षणोत्थितया दृष्टे त्वयि मुग्धया ।
आशास्यते कर्तुं करप्रेरणनिश्चला दोला ॥]