691
[सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा ।
नेच्छतोऽपि पादौ धावति हसन्ती हसतः ॥]
अभिसारिका यथा—
[गमिष्यसि तस्य पार्श्वं मा खिद्यस्व तरुणि वर्धतां मृगाङ्क ।
दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥]
प्रोषितभर्तृका यथा—
[ग्रिष्मे दावाग्निमषीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि ।
आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥]
विरहोत्कण्ठिता यथा—
‘अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे
स्थेयं पुत्रि निरन्नया तदधुना किंचिन्मुखे दीयताम् ।
इत्युके जरतीजनेन कथमप्यध्वन्यवध्वा ततः
पर्यस्तेऽहनि कल्पितश्च कवलो धौतश्व 1304धाराश्रुभिः ॥ ४०५ ॥’