तत्र ‘काव्यशोभाकरान्’ इत्यनेन श्लेषोपमादिवद्गुणरसभावतदाभासप्रशमा1402दीनप्युपगृह्णाति1403 । मार्गविभागंकृद्गुणानामलंक्रियोपदेशेन श्लेषादीनां गुणत्वमिवालंकारत्वमपि ज्ञापयति—
इति श्लेषादीनां दशानामेव 1405मार्गप्रविभागकारितां ब्रुवन्काव्यशोभाकरत्वेन गुणान्तराणामप्यलंकारत्वमुपकल्पयति ॥ तदाह, ‘कस्तान्कार्त्स्न्येन 1406वक्ष्यति’ । युक्तमिदमुक्तम् । अयुक्तं त्विदमुक्तं रसानामलंकारतेति ॥
तेषां गुणानामिवालंकारव्यपदेशाभावात् । नायुक्तम् । 1407युक्तोत्कर्षाणामूर्जस्विरसव1408त्प्रेयसामलंकारेषूपदेशात् । तद् यथा—