सजातीयानां शब्दगुणेषु समाध्यादीनां यथा—
अत्रान्यधर्माणामन्यत्रारोपणं समाधिः पृथक्पदता माधुर्यं, 1440बन्धविकटत्वमुदारता, 1441ध्वनिमत्ता, गाम्भीर्यमिति सजातीयाः संकीर्यन्ते । यतो वसन्तलक्ष्मीरशोकस्येति पदयोः शब्दध्वनिरपि परिस्फुरति । यथा कस्यचिदशोकस्य मानिनोऽङ्गेषु प्रियाङ्गना सविलासं चेष्टते तथास्येयमिति ॥
1442अर्थगुणेषु श्लेषादीनां यथा—
अत्र 1445संविधाने सुसूत्रता श्लेषः, अर्थस्य प्राकट्यं प्रसादः, उत्पत्त्यादिक्रियाक्रमो रीतिः दीप्तरसत्वं कान्तिरित्यर्थगुणाः सजातीयाः संकीर्यन्ते ॥
दोषगुणेषु 1446ग्राम्यादीनां यथा—