1535नरसिंहप्रकारो यथा—
अत्र नरसिंहजाताविव सिंहनरशरीरभागौ1537 सहकारवर्णनावागारम्भानुसारेण सखीविषयानुकम्पा सहकारविषया च कुत्सा मिथः संकीर्येते । तथा हि 1538दैवहतिके इतिशब्देन लब्धायां नियत्युपाधौ सर्वथैवानुकम्प्यमानतायां सहकारसंवर्धननिबन्धनत्वमेवास्याः कला द्योत्यते । एवं नाम त्वं दैवोपहतासि यत्सहकारछद्मानं विषपादपं1539 द्वारि संवर्धयसीति1540 । विषपादपशब्देन च1541 लब्धायां सहकारस्य सर्वथैव कुत्सायां 1542विकासकाले कामिनीनामसह्यस्मरज्वरसंनिपातहेतुकत्वमेवास्याः कप्रत्ययेन1543 प्रत्याय्यते ॥ तदुक्तम्—