तदुक्तम्—‘स एव धर्मो धर्मी चेत्युन्मत्तोऽपि न भाषते ।’ अस्तु तर्हि तिङ्वाच्यः1677 कर्ता उपमानमिति चेत् न्यग्भूतोऽसौ क्रियापदे । कथं पुनरसौ क्रियापदे1678 न्यग्भूतो भवति । श्रूयतां, षडर्थास्तिङन्तेन प्रतीयन्ते क्रिया कालः उपग्रहः साधनं सङ्ख्या पुरुषश्चेति । तेषु क्रियाकालात्मनेपदपरस्मैपदनिमित्तानि प्रकृतिरभिधत्ते प्रत्ययः साधनं, सङ्ख्यां पुरुषं च । एतेषां तु क्रियार्थत्वात्क्रिया प्रधानं, कालात्मनेपदनिमित्ते क्रियाविशेषणत्वेन, सङ्ख्यापुरुषौ साधनविशेषणत्वेन तयोरेव न्यग्भवतः । साधनं पुनः ‘प्रकृतिप्रत्ययौ1679 1680स्वार्थं सह ब्रूतः’ इति न्यायात् ‘प्रधानभूतमपि भूतं भव्यायोपदिश्यत’ इति न्यायेन क्रियासिद्धावुत्प-735 न्नव्यापारं परार्थं तस्यां क्रियायां न्यग्मवति । तेनायं कर्ता स्वक्रियासिद्भाबाकुलः1681 कथमुपमानत्वेनोपमेयत्वेन 1682वान्यदपेक्षितुं क्षमते । एवं तर्हि योऽङ्गानि लिम्पति तेन क्रियोपलक्षितेन कर्त्रा तुल्यं तम इत्यर्थः प्रतिपत्स्यते । मैवम् । क्रियोपलक्षितस्य कर्तुरुपमानभूतस्य शब्दन्वायबलाप्रतिपत्तिः । शब्दो हि मुख्यागौणीलक्षणाभिरर्थप्रकरणादिसंपादितसाचिव्यादा1683भिस्तिसृभिरेव वृत्तिभिरर्थविशेषप्रतिपत्तिनिमित्तं भवति । तद्यथा—गौरित्ययं शब्दो मुख्यया वृत्त्या सास्नादिमन्तमर्थं प्रतिपादयति स एव तिष्ठन्मूत्रत्वादिगुणसंपदमपेक्ष्य वाहीकादौ प्रयुज्यमानो गौणीं वृत्तिमनुभवति । यदा तु मुख्यया गौण्या वोपात्तक्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदा लक्षणया स्वार्थाविनाभूतमर्थान्तरं लक्षयति यथा गङ्गायां घोषः प्रतिवसतीति गङ्गाशब्दो विशिष्टोदकप्रवाहे निरूढाभिधानशक्तिर्घोषकर्तृकायाः प्रतिवसनक्रियाया अधिकरणभावं गन्तुमसमर्थः स्वार्थाविनाभूतं तटं1684 लक्षयतीति । न चैतासामिहान्यतमापि वृत्तिः संगच्छते । तथा हि लिम्पतेः क्रियावचनत्वान्न मुख्या1685 । नापि क्रियाकर्त्रोरसादृश्येन शुक्तिकादौ रजतादिवत्तद्भावापत्तिः क्रियागुणानां कर्तर्यसंभवात् । साक्षादिव प्रयोगाच्च न गौणी क्रियायाश्च स्वयमेव धर्मरूपत्वात् । बुद्धिः पश्यतीतिवदन्यधर्माणामन्यत्राधिरोपणमुपचार इति न गौणीभेद उपचारिता1686 । इवशब्दस्य चासादृश्येऽपि दर्शनान्न लक्ष्येत । यदि हीवशब्दः सादृश्यमेव विद्योतयति तदा लिम्पतिक्रियायाः सत्त्वभूतेन तमसा सादृश्यं न संभवतीति स्वार्थाविनाभूते कर्तार-736 माक्षिपति । न चेह लक्षितलक्षणाविरुद्ध1687लक्षणादयोऽपि वर्तन्ते, यथा ‘प्रिये जने नास्ति पुनरुक्तं’, ‘स्वल्पैरसावपि न दृश्यत एव कालैः’ इति । न च 1688शब्दन्यायविलङ्घिनी पदार्थव्युत्पत्तिः प्रेक्षावद्भिराद्रियते । यद्यप्यध्याहारादिभिरिदमपि स्यात्तथापि तुल्यधर्मो मार्गणीयस्तद्वदेव विप्रतिपत्तेः ॥ न चेन्दुमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य प्रत्ययो भवतीति वाच्यम् ।

  1. ‘तिङां यः’ ख
  2. ‘क्रियावयवे’ ख
  3. ‘प्रकृतिप्रत्ययार्थौ’ ख
  4. ‘यत्र सहार्थ ब्रूते’ क
  5. ‘स्वक्रियासिद्धा वा कुतः’ ख
  6. ‘चान्यदपेक्षितं’ क, ‘वान्यदपेक्षितं’ ख
  7. ‘साचिव्यादिभिः’ क ख
  8. ‘यत्तटं’ क
  9. ‘क्रियावचनत्वान्मुख्या नापि क्रियाकर्तारः सादृश्येन’ क
  10. ‘उपचरिता’ क, ‘उपचरितः’ ख
  11. ‘इह लक्षणाविरुद्ध—’ ख
  12. ‘शब्दान्यविलम्बिनी’ क, ‘शब्दान्यपविलम्बितप्रायविलम्बिनी’ ख