‘चतुर’ इत्यनेन शास्त्रीयलौकिकव्यवहारवेदिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमुच्यते । ‘उदात्त’ इत्यनेन आशयविभूत्योराभिजात्ययौवनादीनां चोत्कर्षः प्रकाश्यते । चतुर्वर्गफलं 1703प्रबन्धं को वा न बान्धवीयतीत्यनेन श्रोतॄणां रामादिवद्वर्तितव्यम्, न रावणादिवदिति विधिनिषेधनिबन्धनस्य1704 प्रबन्धस्याभीष्टतमत्वमाख्यायते । ‘मुखं प्रतिमुखम्' इत्यादिना पञ्चाङ्गं प्रबन्धशरीरमभिधीयते । तदङ्गानि चोपक्षेपपरिकरादीनि चतुःषष्टिरपि मुखादिष्वेवान्तर्भवन्ति । अतस्तद्वदेव पञ्चसंध्येकमपि वाक्यं प्रबन्धव्यपदेशमासादयति । तद्यथा—
‘कथमपि कृतप्रत्यासत्तौ प्रिये’ इति मुखम्, ‘स्खलितोत्तरे’ इति प्रतिमुखम्, ‘विरहकृशया कृत्वा व्याजं प्रजल्पितमश्रुतम्’ इति गर्भः, ‘असहनसखीश्रोत्रप्राप्तिप्रसादससंभ्रमं विवलितदृशा’ इति विमर्शः, 'शून्ये गेहे समुच्छ्वसितं 1705समेतम्’ इति निबर्हणम् । एतेन प्राचीनप्रबन्धार्थेऽपि एकवाक्योक्तेन प्रबन्धत्वमित्याख्यातं न भवति । तद्यथा—
‘अविस्तृतमसंक्षिप्तम्’ इत्यनेन विस्तारभीरूणां कथारसविच्छेदशङ्किनां च चित्तमावर्ज्यते । ‘1706श्रव्यवृत्तम्’ इत्यनेन वृत्तान्तरैराश्वासकादि-