592
ग्लपयति परिपाण्डुक्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्त्रम् ॥ ५६ ॥’

अत्र प्रकृष्टशोकानुबन्धिनी ग्लानिर्वैवर्ण्यक्षामताभ्यामनुबध्यते ॥

उत्कण्ठाहर्षशोकादेरुन्मादश्चित्तविप्लवः ॥ १५९ ॥

तद्रूपेण रसस्य जन्म यथा—

510क्वाकार्यं क्व कलाधरस्य च कुलं भूयोऽपि दृश्येत सा दोषाणामुपशान्तये श्रुतमहो कोपेऽपि शान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियो रेखैव511 सान्यादृशी चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ५७’

अत्र विरहिणः पुरूरवस उत्कण्ठादिभिः प्रेमप्रकर्षादसत्प्रलापरूप उन्मादो निष्पद्यते ॥

आदरातिशयाच्चेतस्यावेगः संभ्रमो मतः ।

तद्रूपेण रसस्य संकरो यथा—

‘अलमलमतिमात्रं साहसेनामुना ते त्वरितमपि विमुञ्च त्वं लतापाशमेनम् ।
चलितमिव निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥ ५८ ॥’

अत्र रतिजन्मा संभ्रमातिशयो रतिजन्मनैव मतिप्रकर्षेण संकीर्यते ॥

मनःशरीरयोः खेदः क्रियातिशयतः श्रमः ॥ १६० ॥

तद्रूपेण रसस्य संकरो यथा—

‘स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः खेदबिन्दून् ।
  1. ‘क्वाकार्यं शश लक्ष्मणः’ विक्रमोर्वसीये । ‘क्वाकार्यं क्व कलाकरस्य’ च ख, ‘क्व कलाधरस्य’ च ख
  2. ‘लेखैव’ घ