593
मुकुलयति च नेत्रे सर्वथा सुभ्रु खेदस्त्वयि
विलसति तुल्यं 512वल्लभालोकनेन ॥ ५९ ॥’
अत्र मालत्याः पुष्पावचयजन्मा श्रमः, माधवावलोकनजा च रतिः, स्वेदगद्गदाङ्गसादनयनमुकुलैस्तुल्यधर्मिणौ मिथः संकीर्येते ॥
चित्तस्य खेदो निर्वेदस्तत्त्वज्ञानोदयादिभिः ।
तद्रूपेण रसस्य शेषो यथा—
‘जरामरणदौर्गत्यव्याधयस्तावदासताम् ।
मन्ये जन्मैव धीराणां भूयोभूयस्त्त्रपाकरम् ॥ ६० ॥’
अत्र मोक्षायोत्सहमानस्य कस्यचिन्निर्वेदावदमो गम्यते ॥
क्रियास्वपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः ।
तद्रूपेण रसस्य513 निष्पत्तिर्यथा—
‘शिथिलशिथिलं न्यस्य स्वैरं धनुःशिखरे शिरो
नयनसलिलैः कुर्वन्मौर्वीलतामपरामिव ।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं
किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति ॥ ६१ ॥’
अत्र विरहिणो रामस्य क्रियास्वपाटवं निष्पाद्यते ॥
क्रियाविद्वेष आलस्यं सुखसंविन्मदादिभिः ॥ १६१ ॥
तद्रूपेण रसस्य निष्पत्तिर्यथा—
[गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य ।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति ॥]