अत्र काचित् सखीं पूर्वं भर्तरि 541गृहीतमानां तेनैव नख542पदाङ्कितस्तनीमालम्बनविभावभूतामुपलभमानायाः कस्याश्चित्सख्या उत्पन्नो हासः स्थायिभावस्तदीयमानपरिग्रहस्मरणादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमितेषु शङ्कावहित्थगद्गदादिव्यभिचारिषु 543निष्पद्यमानो हास्यशब्देनाभिधीयते ॥
अत्र वत्सलप्रकृतेर्धीरतया ललितनायकस्य 546प्रियालम्बनविभावादुत्पन्नः 547स्नेहस्थायिभावो विषयसौकुमार्यात्मप्रकृत्यादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानैर्मोह548धृतिस्मृत्यादिभिर्व्यभिचारिभावैरनुभावैश्च549 संसृज्यमानो निष्पन्नः प्रेयानिति प्रतीयते ॥
रतिप्रीत्योरपि चायमेव मूलप्रकृतिरिष्यते । यदित्थमाहुः—