संप्रत्यतिप्रसङ्गवारणार्थं क्रमप्राप्ता वैशेषिकगुणा लक्षितव्याः । ते च दोषा अपि सन्तो गुणीभावमापन्ना उच्यन्ते । तत्रैष कवीनामालापः—
20दारुणानां गुणत्वमिति शङ्कां दर्शयन्नाह—
यथा—
अत्र हुं हु मममेत्यसाध्वोरपि म्लिष्टम्लेच्छितयोरनुकरणत्वाद्गुणत्वम् ॥
पदादीति । पदवाक्यवाक्यार्थदोषाणां गुणत्वापत्तये नित्यं ये भवन्ति, तेऽनुकरणादिषु मध्ये दोषगुणाः स्मृता इति संबन्धः । यद्यपि चानुकरणादिका एव न गुणाः, तथाप्यनुक्रियमाणाद्यभेदोपचारेणोक्तम् । पदादिदोषेष्वन्त्यान्त्यस्यैकस्य नवधामेदे चतुर्विंशतिप्रकाराः । यथेति । येनोपाधिना गुणीभवनमाचार्यैरुपपादितं तत्तदुपाधिविभागप्रदर्शनं करिष्यत इति । या म्लिष्टेति । इह द्वये दोषा नित्या अनित्याश्च । तत्रानुकरणमात्रानपवदनीयदोषभावाश्च्युतसंस्काराप्रयुक्तादयो नित्याः । अनुकरणीयानुकरणानपवादकहेतुकाः श्रुतिकटुत्वप्रभृतयस्त्वनित्याः । येषु पददोषेषु म्लिष्टम्लेच्छितप्रभृतीनां यासाधुता निरूपिता, सा गुणत्वमनुकरणे प्रपद्यत इत्यन्वयः । लुप्तैकदेशं म्लिष्टम् । अव्यक्तरूपं म्लेच्छितम् । आदिग्रहणेन ग्रस्तनिरस्तो-