002 हुरमृतां कलाम् ॥’ इति । तस्य ब्रह्मणोऽनाद्यविद्यावशादाद्यः परिणामः पश्यन्तीरूपो जायते । स हि वर्णविभागादक्रमः स्वयंप्रकाशश्च । पूर्वापरे स्वावस्थे पश्यतीति पश्यन्तीत्युच्यते । ततः परमविद्योपादानादन्तः संकल्परूपक्रमवान् श्रोत्रग्राह्यवर्णाभिव्यक्तिरहितस्तृतीयः परिणामो मध्यमारूपो जायते । सा किल द्वयोः परिणामयोर्मध्ये सदा तिष्ठतीति मध्यमेत्युच्यते । अन्तरं दूरप्रसृतायामविद्यायां स्थानकरणप्रयत्नव्यज्यमानश्रोत्रसंवादिवीणादुन्दुभिनादपरिचयगद्गदाव्यक्ताकारादिवर्णसमुदायात्मकस्तृतीयः परिणामो वैखरीरूपो जायते । विशिष्टं खमाकाशं राति प्रयच्छतीति विखरो देहेन्द्रियसंघातः । तथा च श्रुतिः—‘न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः ॥’ इति । तत्र भवा वैखरीति । तदेतासामवस्थानामाद्यास्तिस्त्रो नित्या अतीन्द्रियाः । तदुक्तम्—‘स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ केवलं बुध्द्युपादानक्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥ अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तःसूक्ष्मा सा चानपायिनी ॥’ इति । श्रुतिरप्याह—‘चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥’ इत्यादिकमागमसमुच्चयादेवावसेयम् । का पुनस्ता वाचो यासामियमधिष्ठात्रीत्यत उक्तम्—‘ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् । यस्याः’ इति । आस्पदमधिष्ठानमवच्छेदः । ध्वन्यादिभिरवच्छिन्ना परा वाक् तद्व्यवहारहेतुः । साहित्यप्रसिद्धाभिधानध्वननलक्षणव्यवहारकारित्वमेकस्मिन् वर्णे न निरूप्यते इति बहुवचनम् । पदवाक्ययोरस्ति प्रत्येकमपि तथाभाव इति ताभ्यामेकवचनमुपात्तम् । तदयमत्र तात्पर्यसंक्षेपः । साहित्यस्वरूपनिरूपणाय किलैष ग्रन्थारम्भः । साहित्यं च शब्दार्थयोः संबन्धः । तत्र शब्द एव क इत्यपेक्षायामयं विभागो ध्वनिरित्यादिः । अर्थस्तु स्तम्भकुम्भादिलक्षणो सोके शास्त्रे च प्रसिद्धः । संबन्धः कश्चिदनादिः । सर्वस्वायमानस्तु संबन्धो नान्यत्रेत्यस्मिन्नायतते । स चतुर्विधः—दोषहानम्, गुणोपादानम्, अलंकारयोगः, रसाभियोगश्चेति ॥
प्रेक्षावत्प्रवृत्त्यङ्गसंबन्धप्रयोजने दर्शयति—
निर्दोषमिति । प्रीतिः संपूर्णकाव्यार्थस्वादसमुत्थ आनन्दः काव्यार्थभावनाद-