विभागमन्तरेण विशेषलक्षणानवतारात्पददोषान्विभजते—
असाध्विति । मुख्यार्थहतौ मिथोऽनपेक्षासूचनया समासः । अत एव लाघवेऽनादरः । कथं पदप्रतीकदोषा न गण्यन्त इति शङ्कामभिप्रेत्याह—स्पष्टा इति । पदसंश्रयाः पदान्वयव्यतिरेकानुविधायिनः । एवं वाक्यादावपि गुणादावपीदमेवाश्रितत्वम् ॥
विभागप्रयोजनमाह—
अथैषामिति । परीक्षां प्रतिजानीते—सम्यगिति । लक्षणदोषशून्यं लक्षणानुपपत्तिनिर्णेजनमेव हि परीक्षापदार्थः । कथमेतत्संपत्स्यते इत्यत आह—सोदाहरणमिति ॥
शब्दस्वरूपलक्षणः प्रथमनिरस्यो दोष इत्याशयेन प्रागुद्दिष्टस्यासाधोर्लक्षणमाह—
यथा—
अत्र बाधतेरात्मनेपदित्वाद् ‘बाधते’ इति स्यात्, न पुनर् ‘बाधति’ इति ॥
शब्देति । शब्दाः शिष्यन्ते प्रकृतिप्रत्ययविभागपरिकल्पनया ज्ञाप्यन्ते येन तच्छब्दशास्त्रं त्रिमुनिव्याकरणं तेन विरुद्धं तदाम्नातप्रातिस्विकविशेषपरित्यक्तमतो न देशीयपदानामसाधुत्बम् । तथा च प्राच्यैः—‘नाथ ते कुचयुगं पत्रावृतं मा कृथाः’ इति अन्यकारकवैयर्थ्यमिति, ‘सलीलपाणिद्वयलोलनालमानर्तिताताम्रदलं दधन्तीम्’ इति च तादृशमेवोदाहृतम् । अत्र केचिदाहुः—‘बाधतिधातुं संस्कारप्रच्यावनेन