022

यथा—

‘काअं खाअइ खुहिओ कूरं फेल्लेइ णिब्भरं रुट्ठो ।
सुणअं गेण्हइ कण्ठे हक्केइअ णत्तिअं ठेरो ॥ ३० ॥’
[काकं खादति क्षुधितः कूरं फेल्लति निर्भरं रुष्टः ।
श्वानं गृह्णाति कण्ठे हक्कायति नप्तारं स्थविरः ॥]

अत्र काकं क्षिपति, कूरं खादति, कण्ठे नप्तारं गृह्णाति, श्वानं भीषयते, इत्यादौ2 वक्तव्ये यथोक्तपदविन्यासः संकीर्यते ॥

वाक्यान्तरपदैरिति । वाक्यान्तरसंवलितानि पदानि वाक्यान्तरमनुप्रविश्य तथा प्रतीतिं विघ्नन्ति, यथा समुदाय एव दूषितो भवति ॥ काकमिति । कूरं भक्तं क्षुधितः खादति, काकं च निर्भरं रुष्टः सन् क्षिपति, श्वानं च निवारयति, नप्तारं च कण्ठे गृह्णाति स्थविरजातिः ॥ आकाङ्क्षाक्रमेण किंचित्पदं कस्यचिद्वाक्यस्य संबद्धमिति ज्ञायत एव । तदाह—अत्र काकं क्षिपतीति । शब्ददोषत्वं प्रकाशयति—इति वक्तव्य इति । यथोक्तपदविन्यास इत्यनेन संकीर्यत इत्यस्यार्थो विवक्षितः । एवंप्रकारः संकर इत्यर्थः । विजातीयसंवलने लोके संकरव्यवहारः ॥

विभिन्नप्रकृतिस्थादि पदयुक्त्यपदं विदुः ।

यथा—

‘आउज्ज3अ पिट्टिअए जह कुक्कुलि णाम मज्झ भत्ताले ।
पेक्खन्तह लाउलकण्णिआह हा कस्स कन्देमि ॥ ३१ ॥’
[आवर्ज्य पीड्यते यथा कुक्कुरो नाम मम भर्ता ।
प्रेक्षंत राजकुलकर्मकरा अहह कस्य क्रन्दामि ॥]

तदेतत्प्रकृतिस्थकोमलकठोराणां नागरोपनागराणां ग्राम्याणां वा पदानामयुक्तेरपदम् ॥

विभिन्नेति । षोढा पदं भवति—प्रकृतिस्थम्, कोमलम्, कठोरम्, ग्राम्यम्, नागरम्, उपनागरं च । तत्रानेकदीर्घस्वरकृतगौरवमेकसंयोगकृतगौरवं पदं प्रकृ-

  1. टीकादर्शनेन ‘इति वक्तव्ये’ इति भवेत्
  2. ‘ज्झि’ इति सटीकपुस्तकपाठः