028
[शैलसुतारुद्धार्धं मूर्धाबद्धभुग्नशशिलेखम् ।
शीर्षपरिष्ठितगङ्गं संध्याप्रणतं प्रमथनाथम् ॥]

क्रियापदाभावादशरीरमिदम् ॥

क्रियापदेति । क्रियेत्युपलक्षणम्। प्रधानपदहीनमिति बोद्धव्यम् । प्रधानाविमर्शे हि वाक्यशरीरमेव न निष्पन्नं स्यात् ॥ शैलेति । वाक्ये क्रियाप्रधानमिति दर्शने तत्पदानुपादानादत्र प्रधानाविमर्शः। शैलसुतयावरुद्धमर्धं यस्य । मुद्धाणो मूर्धा तत्राबद्धा भुग्ना शशिलेखा येन । शीर्षे प्रतिष्ठा गङ्गा येन । यश्च संध्यायै प्रणतस्तं प्रमथनाथं प्रमथा गणास्तेषां नाथम् । कर्मविभक्तेः क्रियामन्तरेणाचरितार्थत्वात्क्रियाया नमस्काररूपाया व्यभिचारेणार्थापत्तिविषयतानुपपत्तेरिति । अस्यां च गाथायां स्त्रीमयव्यापाररूपता भगवतः प्रतीयते इति रहस्यमाराध्या मन्यन्ते ॥

गुणभङ्गद्वारकदोषनिरूपणावसरोऽयमित्याशयवानाह—

गुणानां दृश्यते यत्र श्लेषादीनां विपर्ययः ॥ २८ ॥
अरीतिमदिति प्राहुस्तत्त्रिधैव प्रचक्षते ।
शब्दार्थोभययोगस्य प्राधान्यात्प्रथमं त्रिधा ॥ २९ ॥
भूत्वा श्लेषादियोगेन पुनस्त्रेधोपजायते ।
अत्र यः श्लेषसमता सौकुमार्यविपर्ययः ॥ ३० ॥
शब्दप्रधानमाहुस्तमरीतिमतिदूषणम् ।

तत्र—

विपर्ययेण श्लेषस्य संदर्भः शिथिलो भवेत् ॥ ३१ ॥

यथा—

‘आलीयं मालतीमाला लोलालिकलिला मनः ।
निर्मूलयति मे मूलात्तमालमलिने वने ॥ ४१ ॥’

अत्र भिन्नानामपि पदानामेकपदता प्रतिभासहेतुरनतिकोमलो बन्धविशेषः श्लेषः । तद्विपर्ययेण शब्दप्रधानोऽयं श्लेषविपर्ययः ॥