अत्र सत्यसमस्तपदामिधाने सत्यपि चार्थसौकुमार्ये श्लेषादिगुणसामप्र्यभावान्न वैदर्मी रीतिः । नापि यथोक्तलक्षणाभावाद्गौडीयादय इति । खण्डितरीतित्वादयमोजोविपर्ययः शब्दार्थप्रधानो गुणविपर्ययो दोषो भवति । यदाह—
वाक्ये य इति । ननु समासभूयस्त्वमोजोऽभिधास्यते तत्कथमस्याभावोऽर्थप्रधानोऽपि कथं च दोष इत्यत आह—खण्डयन्रीतिमिति । रीतिर्भङ्गपर्यवसायी तस्याभावो दूषणम् । न तु तन्मात्रमित्यर्थः । एतदुक्तं भवति । शब्दार्थयोरुचिता प्रौढरोजः । यदाह—‘रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः । तव्द्यक्तिहेतुशब्दार्थावाश्रित्यौजो व्यवस्थितम् ॥’ इति । तत्रार्थव्यक्तिमर्थगुणेषु विवेचयिव्यामः । शब्दस्य तु पारुष्यशैथिल्यव्यतिकरलक्षणा सा च क्वचित्समासदीर्घतया व्यज्यते । यथा—‘चश्चन्द्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ।’ इति । क्वचित् अन्यथापि प्रकाश्यते । यथा—‘यो यः शस्त्रं बिभर्ति’ इत्यादि । तदेवं तत्त्वव्यवस्थितौ पूर्वाचार्यव्यवस्थित्या गुणकाण्डे समासभूयस्त्वमोजोलक्षणं व्यभिचरितगुणमध्ये समासरतनासौष्ठवं वक्तृक्षमतया गुण इत्यभिप्रायाद्विशेषं तत्र वक्ष्यामः—तदिदमिति । रीतिं खण्डयतीति । नहि प्रौढेरभावे गुणसंबन्धनात्मिका रीतिर्नामेति विपर्ययपदेन साधारणेन पारुष्यशैथिल्ये दर्शयति—अत्रेति । एतदेवाचार्यमतेन द्रढयति—यदाहेति । यद्यप्यत्रानुप्रासोऽस्ति तथापि रीतिमन्तरेण मृतशरीर इव काव्ये नालंकरणतामध्यास्ते । ततश्च न प्रकृतः कोऽपि चमत्काराविर्भाव इति नास्यैव काव्यतां प्रयोजयतीत्यर्थः । दाक्षिणात्या वैदर्भीमाहुः । पारावरीणास्ते हि विशिष्टरीतिस्वरूपमवधारयितुं क्षमा इति ॥
यथा—