036
हीनोपमं भवेच्चान्यदधिकोपममेव च ।
असदृक्षोपमं चान्यदप्रसिद्धोपमं तथा ॥ ४५ ॥
निरलंकारमश्लीलं विरुद्धमिति षोडश ।
उक्ता वाक्यार्थजा दोषास्तेषां वक्ष्यामि लक्षणम् ॥ ४६ ॥
समुदायार्थशून्यं यत्तदपार्थ वचः स्मृतम् ।

यथा—

‘जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि ।
तं ब्राह्मणी पृच्छति पुत्रकामा राजन्रुमायां लशुनस्य कोऽर्थः ॥ ५० ॥’

अत्र समुदायार्थः कोऽपि नास्तीत्यपार्थमिदम् ।

अपार्थमिति । उद्देशे दोषाणां व्यासेनोक्तिः पूर्वोक्तप्रयोजनानुरोधेनेति । समुदायिपदानां विशेषणविशेष्यभावः समुदायार्थः । तेन शून्यं पदजातमपार्थकं पदार्थानामसंसर्गेण पदानामसंसर्गोऽभिधीयते । तेनार्थदोषत्वम् । जरद्गव इति । कम्बलपादुकाभ्यामिति लक्षणे तृतीया । न च ताभ्यां वृद्धोक्षस्य संबन्धः । कथं च तस्य मङ्गलानां धवलादीनाम् । ‘मद्रकाणाम्’ इति पाठे गीतकविशेषाणां वा संगतिः, कथं वा पुत्रकामायास्तत्प्रश्नसंसर्गः, कथं च राजन्निति संबोधनं घटते, पुत्रकामायाश्च रुमालवणार्थप्रश्नः । रुमा लवणाकरः । तथा च प्रयोगः—‘रुमाधासकान्तादिलवणात्मवर’ इति ॥

व्यर्थमाहुर्गतार्थ यद्यच्च स्यान्निष्प्रयोजकम् ॥ ४७ ॥

यथा—

‘आहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः ।
स्वामहौषीत्तनुं वह्नौ दृष्ट्वा तौ रामलक्ष्मणौ ॥ ५१ ॥’

अत्राहिषातां दृष्ट्वेत्येताभ्यामेव ताविति, रघुव्याघ्रावित्यनेनैव रामलक्ष्मणाविति, तनुमित्यनेनैव खामिति, अहौषीदित्यनेनैव वह्नाविति, गम्यत इति गतार्थत्वम् । न च शरभङ्गाश्रमगमनं तनुहोमो वाग्रतः कथाशरीरोपयोगीति निष्प्रयोजकत्वम् । अतोऽयं व्यर्थनामा वाक्यस्य