043

यत्त्विति । यद्यपि बलवत्त्वादिना प्रतीयमानं हिमवद्भगवतोरस्ति सादृश्यम्, तथापि वाच्योपमाभ्रमेणायं निबन्धः, सा च न संपन्ना, नहि रोषेण विदग्धमन्मथशरीरदाहो विस्तृतनितम्बनिर्गतगङ्गास्रोतःप्रतिबिम्बभूतः । धातुरङ्गरञ्जितो गङ्गाप्रवाहोऽभिमतस्य भवति ललाटनेत्राग्निज्वालाप्रतिबिम्बमित्यपि न वाच्यम्, येनान्धत्वप्रसङ्गात् । नितम्बसंबन्धोक्तिश्च न संगता स्यात् । कथं च मन्मथशरीरदाहः प्रतिबिम्बायत इत्याशयेन व्याचष्टे—अत्रेति । विशेषणयोर्बिम्बप्रतिबिम्बभावाभावे विशिष्टयोरुपमानं संभवतीति मत्वा विशेषणद्वयमदोषायैवेति व्याख्यातवान् ॥

इदानीं कविसमयबहिर्भूतत्वेनोपमानौचितीमाह—

अप्रसिद्धोपमानं यदप्रसिद्धोपमं हि तत् ॥ ५२ ॥

यथा—

‘कुमुदमिव मुखं तस्या गौरिव महिषः शशीव काव्यमिदम् ।
शरदिव विभाति तरुणी विकसितपुलकोत्करा सेयम् ॥ ६३ ॥’

अत्र कुमुदमुखयोर्गोमहिषयोः काव्यशशिनोश्च प्रतीयमाने शरत्तरुण्योश्च विधीयमाने सादृश्ये उपमानोपमेयस्याप्रसिद्धत्वादप्रसिद्धोपममिदम् ॥

अप्रसिद्धेति । कमलमुखयोरिव कुमुदमुखयोर्गोगवययोरिव गोमहिषयोः काव्यशब्दयोरिव काव्यशशिनोरस्ति सादृश्यं सौरभादिकमेवानुपात्तमपि प्रसिद्धतया प्रतीयमानम् । शरत्तरुण्योस्तु न तथा प्रसिद्धमिति विकसितपुलकाङ्कुरा भातीत्येताभ्यामुपात्तम् । पुलक इवाङ्कुरा इति तत्राशयात् । विशिष्टभानस्य च द्वयानुगतत्वेनैव प्रतीयमानत्वात्तथापि पद इवालंकारेऽपि कविभिरप्रयुज्यमानत्वमेव दोष इति व्याचष्टे—अत्रेति । प्रतीयमान इति । इवशब्दस्य द्योतकमात्रत्वात् । अभिधीयमानं व्याख्यातम् ॥

वक्रताविशेषविशिष्टस्यैवार्थस्य काव्यकोटिनिवेशादवक्रो हेय इत्याह—

यदलंकारहीनं तन्निरलंकारमुच्यते ।

यथा—

‘कोला खणन्ति मोत्थं, गिद्धा खाअन्ति मउअमंसाइं, ।
उलुआ हणन्ति काए, काआ उलुए वि वाअन्ति ॥ ६४ ॥’