048
धर्मार्थकामशास्त्रादिविरोधः कोऽपि यो भवेत् ।
तमागमविरोधाख्यं दोषमाचक्षते बुधाः ॥ ५७ ॥

तेषु धर्मशास्रविरोधो यथा—

‘असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
स्वभावशुद्धस्फटिको न संस्कारमपेक्षते ॥ ७२ ॥’

अत्रानुपनीतस्य वेदाध्ययनानधिकाराद्धर्मशास्रविरोधः ॥

धर्मार्थेति । वेदाध्ययनानधिकारादिति । ‘अकृतव्रतबन्धे तु गुरावुपरते सति । नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते ॥’ इति धर्मशास्रम् ॥

अर्थशास्रविरोधो यथा—

‘कामोपभोगसाकल्यफलो राज्ञां महीजयः ।
अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ॥ ७३ ॥’

अत्र महीजयस्य फलत्वेन कामोपभोगानामर्थशास्रकारैरननुमतत्वाच्छत्रुविजये चाहंकारस्याहेतुत्वादर्थशास्रविरोधः ॥

कामेति । अत्र महीजयस्येति । महीजयस्य धर्मः फलमिति नीतिशास्रे स्थितम् । अहंकारो मानः स न शत्रुविजये साधनम् । अरिषङ्वर्गत्यागे हीन्द्रियजयः । तथा विजिगीषुता । तया च शत्रुपरिभव इति । यदाह—स रघुराष्ट्रो विललास इत्युपक्रम्य कौटिल्याचार्यः मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्यांशं चेति ॥

कामशास्रविरोधो यथा—

‘तवोत्तरोष्ठे बिम्बोष्ठि दशनाङ्को विराजते ।
पूर्णसप्तस्वरः सोऽयं भिन्नग्रामः प्रवर्तते ॥ ७४ ॥’

अत्रोत्तरोष्ठे दशनाङ्कस्य कामशास्रकारैरननुज्ञानात्कामशास्रविरोधः । भिन्नग्रामाणां च पूर्णसप्तस्वरत्वानुपपत्तेः । कलाविरोधेऽपि तदंशत्वात्कामशास्रविरोध एव ॥

तवेति । अत्रोत्तरोष्ठ इत्युपरितन ओष्ठ उत्तरोष्ठमन्तरमुखं नयनान्तं च मुक्त्वा