144 वस्थितभागद्वयात्मिका मिश्रा । रूपमिश्रणात्तिलतण्डुलन्यायेन संकीर्णा । विजातीयवस्त्वन्तरव्यतिरेक एव लोके संकीर्णव्यवहारात् । या पुनः प्रकृतिभावेनापि भाषान्तरसंपर्कं न सहते सानन्यगामिनी । संस्कारसंभेदेन वा प्रकृतिभावेन वा नान्यं गच्छति यतोऽपशब्दरूपा सापभ्रष्टा ॥
तासूत्तमपात्रप्रयोज्या संस्कृतजातिः शुद्धा यथा—
तासूत्तमेति । पात्रलक्षणमुत्तमादिभेदश्च पञ्चमे वक्ष्यते । उन्नमितैकेति । पदानि प्रकृतानङ्गलेखोचितानि निर्व्याजप्रेमगर्भाणि । अत एवावापोद्वापप्रतिसंधाननिमग्नमानसायाश्चिन्तानुभावरूपं भ्रूलताविरेचितमिवासीत् । हस्ततलनिहितैककपोलायास्तादृक्पुलकितैककपोलदर्शनादतिमानात्मा शृङ्गारः सुप्रबुद्ध इव तत्कालं नायकस्यापीति मिथोऽनुबन्धलक्षणापूर्वानुरागकक्षामधिरूढा रतिरेव काव्यसर्वस्वायते । अत्र च कस्यचित्पदस्य भाषान्तरसाधारण्येऽपि भूयसामुदाहरणत्वम् । एवमन्यत्रापि ॥
मध्यमपात्रप्रयोज्या प्राकृतजातिः शुद्धा यथा—
तुज्झेति । वलिअं बलवत्कृतमभिमुखम् ॥
हीनपात्रप्रयोज्या मागधिका यथा—
शद माणुशेति । शतं मानुषमांसभारः कुम्भसहस्रं वसाभिः संचितम् । अनिशं च पिबामि शोणितं वर्षशतं समरो भविष्यति ॥’ अत्र मांसादिलाभहेतुतया समराशंसनं बीभत्समुन्मुद्रयद्धीनपात्रतां द्रढयति ॥