पादान्यथाकरणेन यथा—
अत्र तृतीयपादस्थाने ‘तन्वङ्गी यदि लभ्येत’ इति पाठो भवति, तदैतत्परीक्षौपयिकमपि कामौपयिकं भवति ॥
एकान्त इति । साहसे प्रच्छन्नाभिसारलक्षणे प्रकाशात्प्रच्छन्नो गरीयानिति न्यायात् । दिव्या स्वभोगसोदरा क्रियावल्लक्षणा ॥
अर्धान्यथाकरणेन यथा—
अत्र यदा मध्यमपादयोः स्थाने ‘यावन्न ताः किमपि गौरितरा हसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभिः’ इति पठ्यते, तदैतद्वीरार्थोक्तिरूपमपि शृङ्गारोक्तिरूपं संपद्यते ॥
गौरितरेति । ‘घरूप—‘इत्यादिना पूर्वपदह्रस्वः ॥
पादत्रयस्य चान्यथाकरणेन यथा—
अत्र तुरीयपादमेवोपादाय पादत्रयस्य चान्यथाकरणेन वक्ष्यमाणः पाठो भवति । तदैतत्त्यागप्रशंसार्थमपि त्यागनिन्दार्थं जायते । यथा—
एतेषां च पदाद्यन्यथाकरणानां परस्परसंकरोऽपि भवतीत्यावेदयति ॥