नात्युत्तमपात्रप्रयोज्या पैशाची शुद्धा यथा—
नात्युत्तमेति । उत्तमादपकृष्टं मध्यमादुत्कृष्टं नात्युत्तमम् । ‘प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् । दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् ॥’ एवं नाम देवीकोपे भगवतः प्रणयकातरता येन युगपदिव सर्वाभिरपि मूर्तिभिः प्रणमतीति प्रतीयमानोत्प्रेक्षा ॥
नातिमध्यमपात्रप्रयोज्या शौरसेनी शुद्धा यथा—
नतिमध्यमेति । हीनादुत्कृष्टं मध्यमादपकृष्टं नातिमध्यमम् । तुं सीति । कामस्य । कामायेत्यर्थः । चतुर्थ्याः ‘संबन्धसामान्यविवक्षायां षष्ठी’ इति सूत्रात् षष्ठी ॥
नातिहीनपात्रप्रयोज्योऽपभ्रंशः शुद्धो यथा—
प्रायिकं चैतत् । तेन कवेरभिप्रायशक्त्यादिभ्यः सर्वा अपि सर्वप्रयोज्या भवन्ति । ता इमाः शुद्धाः षडेव ॥
नातिहीनेति । हीनात्किंचिदुत्कृष्टं मध्यभादपकृष्टं नातिहीनम् । लइ वप्पुलेति । लइ गृहाण । वप्पुलेत्यनुकम्पासंबोधने । पिब दुग्धम् । कुतोऽस्माकं छासि-