समं समकालं क्षणेन ततो विस्तीर्णस्तामनुभवैकसाक्षिचिन्तानुवृत्तिलक्षणां निर्वृतिमरसे इति सोपालम्भसंबोधनम् । समन्ततः सर्वतस्तामरसेक्षणे कमलनेत्रे न किमपाकरोतीति पूर्वेण संबन्धः ॥
व्यपेतभेदेषु प्रथमतृतीययोर्यथा—
अबला बलाख्येन दानवेन रहिता विभुना शक्रेणाध्यासिता सुराणां देवानां सभा मृणालनिर्मलैस्तव गुणैरारोहि यतः, अतः स त्वं पुरामबला विभूषिताः स्त्रियोऽलंकृता विहारयन् भासुराणां सतां संपदो निर्विशेत्याशंसा ॥
तत्रैव प्रथमचतुर्थयोर्यथा—
कलं मधुराव्यक्तं उक्तं भाषितं तनोर्मध्यस्य भरेण नामिकास्तनद्वयीं च त्वां विहाय कं नायकं हन्ति वशीकरोति । अतो जितेन्द्रियेषु प्रथमगणनीये त्वयि सति कलङ्कमुक्तं निर्दोषं तनुमधि शरीरमधिकृत्य भूतमनामिकाऽनामिकाङ्गुलिः न याति परस्य त्वत्सदृशस्याभावात् । निर्दोषो हि लोके ऊर्ध्वाङ्गुल्या निर्दिश्यते ॥
एवं द्वितीयचतुर्थयोरपि यथा—
वल्लकीगुणस्वानो वीणाशब्दस्तस्य मानं या बिभर्ति । कालिम्नः श्यामताया आलया कज्जलप्रभृतीनतीत्य वर्णप्रकर्षेण या स्थिता, तया गातुमुपक्रान्तया भ्रमरमालया हेतुभूतया का नामात्र पर्वतं कान्तं न नमति न प्रणमतीति न, न सुखेन आनम्यते इति अस्वानमा या प्रागासीत् साप्युद्दीपनप्रकर्षे निःशेषितमाना नमतीत्यर्थः ॥