255

सेयं द्रव्यवीप्सा नाम द्विरुक्तिः । एवं गुणजातिक्रियावीप्सायामपि द्रष्टव्यम् ॥

वीप्सेति । नानार्थानां युगपदेकैकेन पदेन केनचिद्वक्तुर्व्याप्तिविवक्षा वीप्सा । स प्रयोक्तृधर्मो द्विरुक्त्या व्यज्यते । अत एव या काचिदर्थसामर्थ्याकृष्टा द्विरुक्तिः सा सप्तवर्णादिवन्नामद्विरुक्तिसमाख्यया प्रतिपाद्यते । शैले शैल इति । अत्र किंचिदेकमसाधारणगुणाश्रयं विवक्षन् तदितरस्य तज्जातीयस्य गुणसंस्पर्शमसहमानोऽप्रस्तुतमेव शैलादिकं प्रस्तुतवान् । रोहणादिव्यतिरिक्तासु व्यक्तिषु माणिक्याद्यभावगुणव्याप्तिर्युगपदेव विवक्षिता । शब्दादुपसर्जनतया प्रतीयमानः सिद्धस्वभावः पदार्थो गुण इत्युच्यते । एवं क्रिययापि व्याप्तिरवसेया । सेयं द्रव्यवीप्सेति । शैलादीनां द्रव्याणामेकेन गुणादिना व्याप्तुमिच्छेत्यर्थः ॥

‘प्रकारे गुणवचनस्य ८।१।१२’ इत्यादिरपि वीप्साप्रकार एव ।

यथा—

मानिनीजनविलोचनपातानुष्मबाष्पकलुषान्प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूख ॥ २३१ ॥’

प्रकारे गुणवचनस्येति । प्रकारः सादृश्यं तत्पूर्णगुणेन न्यूनगुणस्य साधारणगुणान्वये भवति । एवं चास्ति समानशब्दाभिधेयत्वं च व्याप्तिः । इयांस्तु विशेषो यदेकत्र सिद्धस्यान्यत्र प्रतिबिम्बनं सादृश्यं, शुद्धवीप्सायां तु युगपदेकस्य नानापदार्थसंबन्ध इति । सोऽयं वीप्साप्रकारशब्दार्थः । अत एव ‘प्रकारे गुणवचनस्य ८।१।१२’ इति पृथक्सूत्रितम् । इह तु वीप्सापदेनैवायमर्थ उपग्राह्य इत्याभिप्रायः । मन्दं मन्दमिवोदित इति क्रियाविशेषणमुपमितम् । एवं भीत भीत इति कर्तृविशेषणमपि । सादृश्यलक्षणगुणोत्प्रेक्षायामिवशब्दः ॥

आभीक्ष्ण्येन यथा—

‘श्लेषं श्लेषं मृगदृशा दत्तमाननपङ्कजम् ।
मया मुकुलिताक्षेण पायं पायमरम्यत ॥ २३२ ॥’

सोऽयमाभीक्ष्ण्ये णमुल् । स चानुप्रयुज्यत इति पुनरुक्तिः ॥

आभीक्ष्ण्येनेति । ‘नित्यवीप्सयोः८।१।४’ इत्यनेन नित्यत्वमाभीक्ष्ण्यमुक्तम् । यां किल क्रियां कर्ता प्राधान्येनानुपरत्या च कर्तुमिच्छति तद्रूपमाभीक्ष्ण्यम् । अत एव तिङव्ययकृतां च द्विरुक्तिरियमसाधारणी । उभयत्रैव क्रियाप्राधान्यप्रतीतेः ।