नन्वन्येऽपि पदावृत्तिप्रकाराः किमिति नोदाहृता इत्यत आह—यमकानां हीति । भेदभक्तयोऽवान्तरप्रकारविच्छित्तयः स्थानास्थानपादभेदलक्षणा श्लोकावृत्तिः परमत्र नास्तीति यमकादपकर्षः ॥
प्रकरणान्तेऽनुप्रासव्युत्पादनप्रयोजनमाह—उपमादीति । अनुप्रासलेशोऽपीति । वर्णाद्यनुप्रासः ॥
श्रुतिवृत्त्यनुप्रासौ तु संदर्भव्यापकावेव प्रशस्तावित्युदाहरणव्याजेनाह—कुण्डलादीति ॥
एतदेव खण्डसरस्वतीषु कविषु न तथा काव्यसिद्धिरिति दर्शयन्द्रढयति—श्रुतिवर्णानुप्रासाविति ॥
क्रमप्राप्तं चित्रलक्षणमवतारयति—वर्णेति । चित्रमालेख्यं तदिव जीवितस्थानीयध्वनिरहितं चित्रमिति काश्मीरकाः । तदसत् । ध्वनेः प्राधान्यानङ्गीकारात्प्रतीयमानमात्राभावस्य क्वचिदप्यसंभवात् । यद्वा आकृतिविशेषयुक्तं चित्रमिति तदपि न । अव्यापकत्वात् । अतो वर्णादिनियमेन प्रवृत्तमाश्चर्यकारितया चित्रमित्येव युक्तम् । वर्णा व्यञ्जनानि । स्थानं कण्ठादि । स्वरा अकारादयः । आकारः पद्माद्याकृत्युन्मुद्रणम् । गतिः पठितिभङ्गविशेषः । बन्धो विविडितिप्रभृतिः ॥
वर्णशब्देन चात्र स्वराणां पृथङ्निर्देशाव्द्यञ्जनान्येव प्रगृह्यन्ते । तत्र वर्णचित्रेषु चतुर्व्यञ्जनं यथा—