षड्जादिस्वरव्यञ्जनं यथा—
षड्जादीति । ‘सरिगामपधानिश्च वर्णाः सप्त स्वरादयः । षड्जादिकृतसंकेता दृष्टा गान्धर्ववेदिभिः ॥’ तन्मात्रव्यञ्जनमयं षड्जादिव्यञ्जनम् । सह एन विष्णुना वर्तते इति सा लक्ष्मीः । अरीन् धमति तापयति इति धमतेर्ल्युटि बहुलवचनमन्यत्रापीति धमादेशः । एवंविधा मम भूयादिति शेषः । निधानिनी पद्मादिनिधानवती । साम्नः सान्त्वस्य धाम गृहम् । धनिनां धामसाधिनी तेजःप्रसाघिका । मानिनी पूजावती । सगरिमा गौरववती । अपपापान्निष्कलुषान् पातीत्यपपापपा । सेति प्रसिद्धविभवा आपगा नदी । समः तत्तुल्यः क्षणविसर्पा भङ्गुरः समागमो यस्याः सा तथा । असमा अनुपमा ॥
मुरजाक्षरव्यञ्जनं यथा—
मुरजेति । ‘पाठाक्षराणि मुरजे लहकारौ तथदधाच्छमौ रेफः । नणकखगघङाश्चेत्थं षोडश भरतादिक्रथितानि ॥’ तन्मात्रविरचितं मुरजाक्षरव्यञ्जनम् । सुबोधमुदाहरणम् ॥
चतुःस्थानचित्रेषु निष्कण्ठ्यं यथा—
वर्णवत्स्थानेष्वपि चतुरादिनियमेन चित्रम् । यद्यपि च ‘अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च’ इति, तथापि जिह्वामूलीयस्य स्वरत्वादुरस्यनासिक्ययोः काव्यप्रवेशाभावादुरोनासिकाजिह्वामूलपर्युदासेन स्थानपञ्चके चतुरादिनिरूपणम् । हे सूचिरुचिधीः शुचिभिः शुद्धाभिर्नुतिभिः स्तुतिभिर्यथोक्तविशेषण विरिञ्चिं ब्रह्माणं धिनु प्रीणयेति । अकुहविसर्जनीयाः कण्ठ्याः ॥