152 रूपम् । गर्भगृहस्था108 नालोकयति चेत्तदाह—संप्रवदन्तीति । अत्र प्रतिपादमष्टौ लघवश्चत्वारो गुरव इति लघुबाहुल्ये संयोगाक्षराणामुद्रेके च ताललयवदतिव्यक्त एव द्रुतभावः ॥
समवृत्ते विलम्बिता यथा—
सेयं स्थाने स्थाने गुर्वक्षरयोगाद्विलम्बिता गतिः ।
प्रणम्येति । अत्र यद्यपि पदचतुष्टये गुरुलघूनां समसंख्यत्वमेव, तथापि संयोगाक्षरैरन्तरान्तरा पठितिदीर्घाभावोन्मेषादारोहप्राधान्ये विलम्बिता । एवं व्युत्क्रमेण समानिकायामपि विलम्बितैव । यथा—‘मीनजालघटितानि सूर्यरश्मिबोधितानि । मत्तषट्पदाकुलानि पश्य भीरु पङ्कजानि ॥’ इति ।
तदिदमाह—सेयमिति । तेन विभागसूत्रे गुरुलघुमिश्रणमेवंरूपमपि बोद्धव्यमिति ॥
तत्रैव मध्या यथा—
सेयं 110नातिलघ्वक्षरत्वान्मध्या गतिः ॥
आसीदिति । अत्र यद्यपि गुरवो बहवस्तथापि न द्रुतिर्न विलम्बनं पठितेरित्यनुभवसाक्षिकोऽयमर्थस्तदेतदाह—नातिलघ्वक्षरेति ॥
द्रुतविलम्बिता यथा—
सेयं द्रुताया विलम्बितायाश्च गतेरन्तरानुप्रवेशाद्द्रुतविलम्बिता गतिः ।
अवतु व इति । अरुणो गरुडाग्रजः शोणश्च । नायको नेता हारमध्यमणिश्च ।