शब्दालंकारसामान्यलक्षणमाह—
ये व्युत्पत्तीति । विशिष्टा उत्पत्तिर्व्युत्पत्तिर्लोपागमविकारादिप्रपञ्चः । अत एव हि संस्कृतादिजातयो व्यवतिष्ठन्ते । आदिग्रहणाद्गुरुलघुसंनिवेशादयो गत्याद्यवच्छेदास्त्रयोविंशतिरुपात्ताः । बाह्यकङ्कणादिसाम्यादियं संज्ञा प्रवृत्तेत्याह—शब्दालंकारसंज्ञा इति ॥
ते च प्रति विशेषं वक्ष्यन्ते—
शब्दालंकारजातयः शब्दालंकारसामान्यानि ॥
स्वरूपस्थितौ रूपान्तरगवेषणमनुचितम् । अतो जातेः प्राधान्यात्प्रथमं लक्षणमित्याह—
तत्रेति । संस्कृतमिति भावप्रधानो निर्देशः । भारतीग्रहणं स्पष्टार्थम् । नन्ववश्यं शब्देन संस्कृताद्यन्यतमेन भवितव्यम् । तत्कोऽत्र कवेः शक्तिव्युत्पत्त्योरंशो येनालंकारता स्यादित्यत आह—सेति । औचित्याकृष्ट एवालंकारः । अस्ति च संस्कृतादेरपि तथाभाव इति भावः ॥
यद्यप्यर्थौचिती पूर्वं दर्शयितुमुचिता तथापि प्राधान्यमावेदयितुं पृथक्तौचितीमाह—