153 पयोधरा मेघाः स्तनौ च । तदेतस्मिन् द्रुतविलम्बिताख्ये वृत्ते समाख्यैव रूपं बोधयतीति ॥
द्रुतमध्या यथा—
सेयं द्रुताया मध्यायाश्च गतेरन्तरानुप्रवेशाद्द्रुतमध्या गतिः ॥
अपि तुरगेति । उत्पन्नाविर्भवद्बर्हगतोज्ज्वलविचित्रकोमलमयूरस्तत्कालमव्याजप्रेमनिर्यन्त्रणकण्ठग्रहविलुलितप्रियाकेशपाशवासनाविकासहेतुः सर्वस्वायमानः कथं बाणलक्ष्यतां सहत इति च्विप्रत्ययेन व्यज्यत इति । अत्र पादचतुष्केऽपि प्रथमं द्रुता पश्चान्मध्या च भागशः प्रत्यभिज्ञायत इत्याह—सेयमिति ॥
मध्यविलम्बिता यथा—
सेयं मध्याया विलम्बितायाश्च गतेरन्तरानुप्रवेशान्मध्यविलम्बिता गतिः ॥
दुन्दुभय इति । अत्रापि प्रतिपादं पूर्वं मध्या ततो विलम्बिता च खण्डशः प्रतिभासत इति दर्शयति—सेयमिति ।
एवमर्धसमविषमयोर्मात्राच्छन्दःसु गद्यमिश्रयोर्लघुगुरून्मिश्रवर्णविन्यासविशेषभूयस्त्वेन द्रुतादिगतयो गवेषणीयाः ॥
एवमिति ।इमामेव व्यवस्थामर्धमध्यमादिष्वप्यतिदिश्यत इति दिङ्मात्रमुदाहरति—
तत्र विषमवृत्तच्छन्दसि द्रुता यथा—