अर्धसमच्छन्दसि विलम्बिता यथा—
उत्कलिकाप्रायगद्ये द्रुता मध्या च यथा—
उत्कलिकाप्रायेति । उच्चावचभावेन प्रतिभासमानमुत्कलिका । यथा—‘सलीलकरकमलतालिकातरलयावलीकम्’ इति । तथैव तदपि प्रकृतोदाहरणमिति व्यक्तम् । ‘पाताल—’ इत्यादौ वसन्ततिलकाभाग इव, ‘हर इव’ इत्यादावार्याभाग इव प्रतिभातीति ॥
पद्यगन्धिगद्ये वृत्तगन्धौ मध्या, जातिगन्धौ द्रुता यथा—
इति ।
वृत्तगन्धौ मध्या, जातिगन्धाविति । ‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य’ (७।१।७४) इति पुंवद्भावेन नुम्न भवति ॥
गद्यादौ मिश्रे गद्यपद्ययोर्द्रुतमध्या यथा—
'हन्त, पुण्यवानस्मि, यदहमतर्कितोपनतदर्शनोल्लसितनयनयानया—
हन्तेति । आश्चर्यस्तिमितस्य हन्तेत्येव वागनुभावस्ततोऽभिमानोन्मेषे पुण्यवानस्मीति अनन्तरं लोकोत्तरविभाववर्णनात्त्वरितस्य यदहमित्यागद्यपर्यवसान एवाविरलमित्यादिवृत्तमाविरासीदिति । मध्ये विच्छेदकारणानुपपत्तौ गद्यपद्याभ्यामेकवाक्यम् ॥