तेष्वन्तःप्रश्नं यथा—
अत्र ‘कदर्थयसि’ इति पदं कथमुक्तं रेफयकारयुक्तं दर्थयसीति, अतो वाक्यान्तरे प्रश्नोत्तरस्योक्तत्वादन्तःप्रश्नमिदम् ॥
बहिःप्रश्नं यथा—
अत्र ‘मज्जन्मकरः’ इत्यस्योत्तरस्य प्रश्नाद्बहिरुक्तत्वाद्बहिःप्रश्नमिदम् ॥
बहिरन्तःप्रश्नं यथा—
अत्र ‘वायुतः’ इत्युत्तरेण प्रश्नाद्बहिरुक्तेन वायुतो नरो वानरो भवति, सुभद्रोपयन्ताप्युच्यते । तेनैतद्बहिरन्तःप्रश्नं भवति ॥
जातिप्रश्नं यथा—
'हैमवार करञ्जिना’ ‘नाजिरं करवामहै’ इत्युत्तराभ्यां गतप्रत्यागताभ्यां प्रश्नोत्तरजातिरभिधीयते । तेन जातिप्रश्नमिदम् ॥
पृष्टप्रश्नं यथा—