158
गौडीया यथा—
‘यस्यावस्कन्दलीलावलितबलपरिस्पन्दखर्वीकृतोर्वीसंरम्भोत्तम्भनायोन्नमितभरनमत्कन्धरासंधिरासीत् ।
शेषो विस्फारफुल्लस्फुटपृथुलफणाफूत्कृताग्निस्फुलिङ्गस्फूर्जत्संदोहसंदेहितविकटशिखामण्डलीरत्नखण्डः ॥ २७ ॥’
सेयमोजःकान्तिमती समस्तोद्भटभूरिपदा च गौडीया रीतिः ॥
यस्येति । अवस्कन्दो ध्राटकः । समस्तोद्भटभूरिपदेति । उद्भटता प्रौढिप्रकर्षः ॥
आवन्तिका यथा—
सेयं समस्तद्वित्रिचतुरपदा वैदर्भीपाञ्चाल्योरन्तरालवर्तिन्यावन्तिका नाम रीतिः ॥
एतानीति । ‘निःसहतनोरसमञ्जसानि’ ‘मार्गतरवः’ इति द्वे द्वे पदे, ‘आलम्बित-’ इत्यादौ त्रीणि पदानि समस्तानि । माधुर्यसौकुमार्ययोर्मनागुन्मेषः पाञ्चालीभागः । इतरेषां समकक्षता वैदर्भीभागः । अनयोः संभेदेनान्तरालकल्पना व्यक्तैव ॥
लाटीया यथा—
‘अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥ २९ ॥’