159

सेयं समस्तरीतिमिश्रा लाटीया नाम रीतिः ॥

अयमिति । मुद्राभञ्जन इति द्वाभ्यां समस्ताभ्यामावन्ती । उदयगिरीत्यादिना पञ्चकेन पाञ्चाली । प्रौढिप्रकर्षेण गौडीया । अयसुदयतीत्याद्यसमासेन वैदर्भी च प्रत्यभिज्ञायत इति पूर्वोक्तसमस्तरीतिसंभेद इति ॥

मागधी यथा—

‘करिकवलनशिष्टैः 116शाकशाखाग्रपत्रैररुणसरणयोऽमी सर्वतो भीषयन्ते ।
चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥ ३० ॥’

सेयमारब्धरीतेरनिर्वाहात्खण्डरीतिर्मागधी ।

करिकवलनेति । अत्र पूर्वार्धे यथोक्ताभावन्तीमुपक्रम्य चरमार्धे गौडीयापरिग्रहादुपक्रान्तरीतेरनिर्वाहः खण्डनम्, तथापि च न च्छायावैरूप्यमिति कविशक्तिव्यञ्जकत्वादलंकारभाव इति । शाको वृक्षविशेषः ॥

या विकासेऽथ विक्षेपे संकोचे विस्तरे तथा ।
चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्विधा ॥ ३४ ॥

या विकास इति । वृत्तिर्वर्तनं रसविषयो व्यापारः काव्यस्य रसप्रवणत्वात् । स च व्यापारः सत्त्वाद्युद्रेकलक्षणो जन्मान्तरानुभवभावितवासनासमुत्थः परिपूर्णीभविष्यद्रसास्वादसर्वस्वायमानचित्तावस्थनिदानभूतोऽर्थगतः पञ्चमेऽभिधास्यते । शब्दगतः पुनरत्र संगतः संदर्भस्य रसप्रकाशकारणेषु प्रधानत्वात् । यदाह—

‘कविवागभिनेयश्च तदुपायो द्विधेष्यते ।
वस्तुशक्तिमहिम्ना तु प्रथमोऽत्र विशिष्यते ॥’

वर्ततेऽनया चित्तमिति करणसाधनोऽयं वृत्तिशब्द इति वर्तयित्रीत्यनेन प्रयोजकव्यापारप्रधानेन दर्शितम् । तत्र विषयवैचित्र्याद्विकासाद्याश्चतस्रश्चित्तावस्थाः । विषयो हि दीप्तमसृणमध्यमभेदेन त्रिविधः । विभावाद्युपधानमहिम्ना तन्मयीभवनयोग्यं हि चेतः कदाचिद्विकसति । सत्त्वाविर्भावो विकासः । न्यग्भूतरजस्तमोगुणं हि चेतः सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिमासादयति । ततः सत्त्वभागप्रतिष्ठितः

  1. ‘शाखि’ ख